SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ जा श्रयणीय एव" न विधेय एव परमते, अथातीन्द्रियत्वात् युक्तेरविषयो वचनार्थः, इदं च कूपपतितोत्तारणं तथाविधं न भविष्यतीत्याशङ्कयाह दैवायत्तं च तद्, अतीन्द्रियं च दैवमिति युक्तेरविषयः, शकुनाद्यागमयुक्तिविषयतायां तु समान का 18 एव प्रसङ्ग इतरत्रापीति, तस्माद्यथाविषयं त्रिकोटिपरिशुद्धविचारशुद्धितः प्रवर्त्तितव्यमित्युक्तं च-18 ___ "देवायत्तं च" काधीन "त" उत्तारणं, ततः किमित्याह-"अतीन्द्रियं च” इन्द्रियविषयातीतं च तदुत्तारणहेतुः "दैवं" कर्म "इति” अस्माद्धेतोः “युक्तेः" विचारणस्याविषयो, भवन्मतेन वचनमात्रस्यैव विषयत्वात् , कथं तत्र सम्यगविज्ञाते तदायत्तायोत्तारणाय प्रवृत्तिरिति, पुनरप्यभिप्रायान्तरमाशङ्कयाह-"शकुनाद्यागमयुक्तिविषयतायां तु" शकुनाद्यागमश्चादिशब्दाद् ज्योतिष्काद्यागमग्रहो युक्तिश्च-विचारस्तद्विषयतायां तु दैवस्यानुकूलेतररूपस्य समान एव प्रसङ्गः "इतरत्रापि” परमब्रह्मादावतीन्द्रिये वचनार्थे, तदपि युक्त्यागमाभ्यां विचारयितुं प्रयुज्यत इत्ययुक्तमुक्तं प्राकू "सादिप-100 थक्त्वममीषामनादि चेत्यादि" इतिः-प्रक्रमसमाप्त्यर्थः, तस्माद्-वचनमात्रस्याप्रामाण्यात् “यथाविषयं” कषादिसर्वविषयानतिक्रमेण"त्रिकोटिपरिशुद्धविचारशुद्धितः" तिसृभिः-कपच्छेदतापलक्षणाभिरादिमध्यावसानाविसंवादलक्षणाभिर्वा कोटिभिः | परिशुद्धो-निर्दोषो यो विचारो-विमर्शस्तेन या शुद्धिः-वचनस्य निर्दोषता तस्याः सकाशात् , प्रवर्तितव्यं हेयोपादेययोः, "आगमेनानुमानेन, ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां, लभते तत्त्वमुत्तमम् ॥ १॥ 00000000000000000000000 थक्त्वममा काटिपरिशुद्धविचारणामस्तेन या शुद्धिः या प्रकल्पय Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy