________________
ललितवि०/श
कुशलैः, अतो दुष्टभक्त एव ब्राह्मणादिभक्तः, एक्मत्रापि योजना कार्या, एवं तीदुष्टात्ततः प्रवर्तिष्यत इत्याशङ्कयाह-न च "दुष्टेतरावगमो” दुष्टादुष्टयोरवगमो विचारमन्तरेणातो विचार आश्रयणीयो, विचारश्च युक्तिगर्भो, न च युक्तिः प्रमाणं,
पं० युता. ॥६८॥
परमते वचनमात्रस्यैव प्रमाणत्वाभ्युपगमाद् “इति” एवं ब्राह्मणादिन्यायेन आलोचनीयमेतत्-वचनमात्रात्प्रवर्त्तनमिति ॥ । तदुद्भूतादेरपि तथादर्शनाभावात् , तत्र चोत्तारणे दोषसम्भवात् , तथा कर्तुमशक्यत्वात् , प्रया-6/ सनैष्फल्यात् , न चोपायमार्गणमपि न विचाररूपं, तदिहापि विचारोऽनाश्रयणीय एव,
तदालम्बनेत्यादिः,"तदुद्भूतादेरपि"तस्मिन्-कूपे उद्भूतो-मत्स्यादिरादिशब्दादतद्भूतोऽपि प्रयोजनवशात्तत्रैव बद्धस्थितिस्तस्यापि "तथादर्शनाभावात्" पतनकारणमविचाय्येवोत्तारणोपायमार्गणस्यानवलोकनाद्, एवं च तथादर्शनादितिहेतोः। प्रागुक्तस्य प्रतिज्ञैकदेशासिद्धता,अथ तदुद्भूतादिरप्युत्तारयिष्यते,ततो न हेतोः प्रतिज्ञैकदेशासिद्धता इत्याह-"तत्र च" तदुद्भूतादेरपि उत्तारणे "दोषसम्भवात्" मरणाद्यनर्थसम्भवात् , तथेति हेत्वन्तरसमुच्चये "कर्तुम्" उत्तारणस्य तदुद्भूतादेः, अशक्यत्वात् , हेतुमाह-"प्रयासनैष्फल्यात्" प्रयासस्य-प्रयत्नस्य नैष्फल्याद्-उत्तारणीयोत्तारलक्षणफलाभावात् , अभ्युच्चयमाह-"नच” नैव "उपायमार्गणमपि" उत्तारणोपायगवेषणमपि परोपन्यस्तं न विचाररूपं, किन्तु विचाररूपमेव, यदि नामैवं ततः किमित्याह-"तत्" तस्मादू "इहापि” उत्तारणोपाये, आस्तां तावत्प्रकृतवचनार्थे "विचारो" विमर्शः “अना
१ एवं शास्त्रमनाद्रियमाणः सदोषं वा मन्यमानः शास्त्राराधको न स्यादिति । २ वेदोक्तमात्रत्वेन प्रवर्त्तनं ॥
000000000000000000000
அGOOGGERCOG C
in Education Intematon
For Private Personel Use Only
www.jainelibrary.org