________________
9000000000000000
त्याह-"मिथः" परस्परं "विरुद्धोपपत्तेः" नित्यानित्यादिविरुद्धार्थाभिधानात् , तर्हि विशिष्टादेव ततःप्रवृत्तिरित्याह"विशेषस्य" दृष्टेष्टाविरोधलक्षणस्य विचारमन्तरेण "दुर्लक्षत्वात्" सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति एकत एव ततः प्रवर्तितव्यं, तत्र च “एकप्रवृत्तेः" एकतो वचनात् प्रवृत्तेः-उक्तलक्षणायाः "अपरबाधितत्वाद्" अपरेण-वचनेन निराकृतत्वात् , ततः किमित्याह-"तत्त्यागौद्" बाधकवचनत्यागाद् "इतरप्रवृत्तौ" बाध्यमानवचनप्रवृत्तौ “यदृच्छा" स्वेच्छा, कथमित्याह-“वचनस्य” कस्यचिद् “अप्रयोजकत्वाद्" अप्रवर्तकत्वाद्, एतदपि कुत इत्याह
तदन्तरनिराकरणादिति, न ह्यदुष्टं ब्राह्मणं प्रत्रजितं वा अवमन्यमानो दुष्टं वा मन्यमानः तद्भक्त | इत्युच्यते, न च दुष्टेतरावगमो विचारणमन्तरेण, विचारश्च युक्तिगर्भ इत्यालोचनीयमेतत् , कूपपतितोदाहरणमप्युदाहरणमात्रं, न्यायानुपपत्तेः, ___ "तदन्तरनिराकरणात्" तदन्तरेण-वचनान्तरेण सर्ववचनानां निराकरणात्, भवतु नाम वचनानां विरोधस्तथापि वचनबहुमानात् प्रवृत्तस्य यतः कुतोऽपि वचनादिष्टसिद्धिर्भविष्यतीत्याशक्य व्यतिरेकतः प्रतिवस्तूपन्यासमाह-"न" नैव "हिः” यस्माद् “अदुष्टम्" अनपराधं "ब्राह्मणं" द्विज "प्रबजितं वा" भागवतादिकम् “अवमन्यमानः" अनाद्रियमाणो “दुष्टं वा" सदोष “मन्यमानो" वचनकरणादिना "तद्भक्तो" ब्राह्मणभक्तः प्रव्रजितभक्तो वा “इति" एवमुच्यते
१ व्यमित्याह तत्र प्र० । २ गादिति प्र०। ३ विचार० प्र० ।
தஞ்சாசுருசு
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org