SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ल० १२ Jain Education In | स्त्वन्ये ॥ १ ॥ सादिपृथक्त्वममीषामनादि वाऽहेतुकादि वा चिन्त्यम् । युक्त्या ह्यतीन्द्रियत्वात् प्रयोजनाभावतश्चैव ॥ २ ॥ कूपे पतितोत्तारणकर्त्तुस्तदुपायमार्गणं न्याय्यम् । ननु पतितः कथमय| मिति हन्त तथादर्शनादेव ॥ ३ ॥ भवकूपपतितसत्त्वोत्तारणकर्तुरपि युज्यते ह्येवम् । तदुपायमार्गणमलं वचनाच्छेषव्युदासेन ॥ ४ ॥ "परमब्रह्मे” त्यादिरार्या, परमब्रह्मणः - पुरुषाद्वैतलक्षणस्यैते - शास्त्रलोकसिद्धाः क्षेत्रविदो - जीवाः अंशा - विभागा व्यवस्थिताः - प्रतिष्ठिताः कुतः प्रमाणादित्याह - " वचनाद्" आगमात्, ते च द्विधा इत्याह- वह्निस्फुलिङ्गकल्पाः - पृथगेव विचटनेन संसारिणः, समुद्रलवणोपमास्त्वन्ये - यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम् एवं मुक्तात्मानः | प्राग्विचनात् संसारिणोऽपि च ब्रह्मणीति ॥ १ ॥ सादीत्याद्यार्यात्रयं सुगममेव परं “हन्त तथादर्शनादेवेति " हन्तेति प्रत्यवधारणे प्रत्यवधारयत तथादर्शनादेव - कूपपतनकारणविचारणमन्तरेणोत्तरणोपायमार्गणस्यैव दर्शनात्, “ शेषव्युदासेने" ति वचनव्यतिरिक्तप्रमाणपरिहारेण साद्यनादिविचटनविचारपरिहारेण वा ॥ G 996966400 एवं चाद्वैते सति वर्णविलोपाद्यसङ्गतं नीत्या । ब्रह्मणि वर्णाभावात् क्षेत्रविदां द्वैतभावाच्च ॥५॥ " इत्यादि, एतदपि प्रतिक्षिप्तं, श्रद्धामात्रगम्यत्वात्, "एवं चे”त्यादिरार्या, एवमिति वचनप्रमाणतः चः - समुच्चये अद्वैते-आत्मनामेकीभावे सति वर्णविलोपादि - वर्णा-ब्राह्म For Private & Personal Use Only 1000969695955666666 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy