________________
ल० १२
Jain Education In
| स्त्वन्ये ॥ १ ॥ सादिपृथक्त्वममीषामनादि वाऽहेतुकादि वा चिन्त्यम् । युक्त्या ह्यतीन्द्रियत्वात् प्रयोजनाभावतश्चैव ॥ २ ॥ कूपे पतितोत्तारणकर्त्तुस्तदुपायमार्गणं न्याय्यम् । ननु पतितः कथमय| मिति हन्त तथादर्शनादेव ॥ ३ ॥ भवकूपपतितसत्त्वोत्तारणकर्तुरपि युज्यते ह्येवम् । तदुपायमार्गणमलं वचनाच्छेषव्युदासेन ॥ ४ ॥
"परमब्रह्मे” त्यादिरार्या, परमब्रह्मणः - पुरुषाद्वैतलक्षणस्यैते - शास्त्रलोकसिद्धाः क्षेत्रविदो - जीवाः अंशा - विभागा व्यवस्थिताः - प्रतिष्ठिताः कुतः प्रमाणादित्याह - " वचनाद्" आगमात्, ते च द्विधा इत्याह- वह्निस्फुलिङ्गकल्पाः - पृथगेव विचटनेन संसारिणः, समुद्रलवणोपमास्त्वन्ये - यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम् एवं मुक्तात्मानः | प्राग्विचनात् संसारिणोऽपि च ब्रह्मणीति ॥ १ ॥ सादीत्याद्यार्यात्रयं सुगममेव परं “हन्त तथादर्शनादेवेति " हन्तेति प्रत्यवधारणे प्रत्यवधारयत तथादर्शनादेव - कूपपतनकारणविचारणमन्तरेणोत्तरणोपायमार्गणस्यैव दर्शनात्, “ शेषव्युदासेने" ति वचनव्यतिरिक्तप्रमाणपरिहारेण साद्यनादिविचटनविचारपरिहारेण वा ॥
G
996966400
एवं चाद्वैते सति वर्णविलोपाद्यसङ्गतं नीत्या । ब्रह्मणि वर्णाभावात् क्षेत्रविदां द्वैतभावाच्च ॥५॥ " इत्यादि, एतदपि प्रतिक्षिप्तं, श्रद्धामात्रगम्यत्वात्,
"एवं चे”त्यादिरार्या, एवमिति वचनप्रमाणतः चः - समुच्चये अद्वैते-आत्मनामेकीभावे सति वर्णविलोपादि - वर्णा-ब्राह्म
For Private & Personal Use Only
1000969695955666666
www.jainelibrary.org