________________
ललितवि०
"अशुद्धादू" इतररूपात्, वाशब्दो विकल्पार्थो, "ब्रह्मणः” परमपुरुषाद्वैतरूपात् "पुरुष एवेद" मित्यादिवेदवाक्यनिरूपि- पं० सुता ताद "इति' एवं "निरूपणीय" पर्यालोच्यं, "एतत्" सकृद्विचटनं, प्रकारद्वयेऽपि दोषसम्भवाद, दोषमेव दर्शयति
शुद्धविचटने कुतस्तेषामिहाशुद्धिः, अशुद्धविचटने तु तत्र लयोऽपार्थकः, न चैवमेकमविभागं च । तदिति, अनेकत्वे च परमताङ्गीकरणमेव, तद्विभागानामेव नीत्या आत्मत्वादिति, एतेन यदाह
शुद्धाद्ब्रह्मणो विचटने कुतः, न कुतश्चिदित्यर्थः, “तेषां" क्षेत्रविदाम् "इह” संसारेऽशुद्धिः, यत्क्षयार्थ यमनियमा-| भ्यासो योगिनामिति, "अशुद्धविचटने तु' अशुद्धाद्विचटने पुनः ब्रह्मणि "लय” उक्तरूपः “अपार्थकः” निरर्थकः, तद-10 शुद्धिजन्यस्य क्लेशस्य तत्रापि मुक्तानां प्राप्तः, तदभ्युपगमेनापि ब्रह्म दूषयन्नाह-"नच" नैव “एवं" परमब्रह्मणः क्षेत्रज्ञानां | विचटने लये चैकम्-अद्वितीय अविभागं च-निरवयवं तत्-परमब्रह्मेति, किन्तु ? विपर्यय इति, एवमपि किमित्याह"अनेकत्वे च" क्षेत्रज्ञापेक्षया परमब्रह्मणः, परमताङ्गीकरणमेवाभ्युपगतं स्यात् , कुत इत्याह-"तद्विभागानामेव" तस्य-परमब्रह्मणः आत्मसामान्यरूपस्य विभागानां-व्यक्तिरूपाणां"नीत्या" युक्त्या “आत्मत्वात्" क्षेत्रज्ञत्वात् , “एतेन" ब्रह्मनिरासेन, यदाह कश्चिदेतत् तदपि प्रतिक्षिप्तमिति योगः, उक्तमेव दर्शयति___“परमब्रह्मण एते क्षेत्रविदोऽशा व्यवस्थिता वचनात् । वह्रिस्फुलिङ्गकल्पाः समुद्रलवणोपमा-1
१ पुरुषाद्वैतलक्षणस्यैतेशास्त्रलोकसिद्धाः प्र० । २ कश्चिदेतदपि प्र० प्र०।
0000000000000000000
॥॥६६।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org