________________
“सहजभवभावव्यर्वाच्छत्तौ तु” सहजस्य -ब्रह्मविचटनादेः कुतोऽप्यप्रवृत्तस्य जीवतुल्यकालभाविनो भवभावस्य - संसारपर्यायस्य व्यवच्छित्तौ-क्षये, पुनः किमित्याह - “ तत्तत्स्वभावतया” तस्याः - सहजभवभावव्यवच्छित्तेर्जितभयत्वस्वभावतया भवत्येतदित्युत्तरेण सह सम्बन्धः कीदृशमित्याह - “निरुपचरितं तत्त्विकं कुत इत्याह- " उक्तवत्" प्रागुतशिवाचलादिस्थानप्राप्तिन्यायेन “ शक्तिरूपेणापि” भययोग्यस्वभावेनापि किं पुनः साक्षाद्भयभावेन, अत एवाह"सर्वथा " सर्वप्रकारैः
150093
भयपरिक्षय इति निरुपचरितमेतत्, न सकृद्विचटनस्वभावत्वकल्पनयाऽद्वै तेऽप्येवमेवादोष इति न्याय्यं वचः, अनेकदोषोपपत्तेः, तथाहि तहिचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति निरूपणीयमेतत्
"भयपरिक्षयो” भयनिवृत्तिः "इति" अस्माद्धेतोः "एतत् " जितभयत्वमिति । अत्रैव परमतमाशङ्क्य परिहरन्नाह - "न" | नैव "सकृद्विचटनस्वभावत्वकल्पनया" एकवारं परमब्रह्मणः सकाशाद्विभक्तिभावस्वभावत्वकल्पनया " अद्वैतेऽपि " परमॐ ब्रह्मलक्षणे किं पुनः द्वैते, “एवमेव” भवदभ्युपगमन्यायेनैव "अदोषः " उपचरितं जितभयत्वमेवलक्षणदोषाभावः "इति” एवंरूपं "न्याय्यं” न्यायानुगतं "वचो” वचनं, कुत इत्याह- अनेकदोषोपपत्तेः, तामेव भावयति, " तथाहीति" पूर्वोतभावनार्थः " तत्” सकृद्विचटनं विभागो ब्रह्मणः सकाशात् क्षेत्रविदामिति गम्यते, "शुद्धात्" सकलदोपरहिताद् १ स्वाभाविकभव भावव्यवच्छित्तौ हि स्वतन्त्र मोक्षत्वेन भूयोभवभवनस्य योग्यतायाः सर्वथा नष्टत्वात् । २ लक्षणदोषाभाव इत्येवं क० प्र० ।
Jain Education International
For Private & Personal Use Only
300000000000000 000000
www.jainelibrary.org