________________
ललितवि०
80000000000000004
द्वैतमुक्तव्यवच्छेदः, तत्र हि क्षेत्रज्ञाः परमब्रह्मविस्फुलिङ्गकल्पाः, तेषां च ततः पृथग्भावेन ब्रह्मसत्तात पं० युता. एव कश्चिदपरो हेतुरिति, | "अनेनेत्यादि" अनेन भावतो जितभयत्वनिर्देशेनाद्वैते-परमब्रह्मलक्षणे सति मुक्ताः-क्षीणभवास्तेषां व्यवच्छेदोनिरासः, कृत इतिगम्यं, कुत इत्याह-"तत्र" अद्वैते “हिः” यस्मात् "क्षेत्रज्ञाः” संसारिणः “परमब्रह्मविस्फुलिङ्गकल्पाः" परमब्रह्मणः-परमपुरुषस्यावयवा एवेतिभावः, यदि नामैवं ततः किमित्याह-"तेषां च" क्षेत्रज्ञानां “ततः" परमब्रह्मणः "पृथग्भावन" विघटनेन "ब्रह्मसत्तात एव" ब्रह्मसत्ताया एव सकाशात् “कश्चित्" कालादिः “अपर" अन्यो “हेतुः" निमित्तम् “इति” एवं ___ सा तल्लयेपि तथाविधैव, तद्वदेव भूयः पृथक्त्वापत्तिः, एवं हि भूयो भवभावेन न सर्वथा जितभ-16 यत्वं, सहजभवभावव्यवच्छित्तौ तु तत्तत्स्वभावतया भवत्युक्तवत् शक्तिरूपेणापि सर्वथा ___ “सा" ब्रह्मसत्ता "तल्लयेऽपि” तस्मिन्-ब्रह्मणि मुक्तात्मनो लयेऽपि "तथाविधैव विचटनहेतुरेव "तद्वदेव" एकवारमिव "भूयः” पुनः “पृथक्त्वापत्तिः” विचटनप्रसङ्गः इति, ततः किमित्याह-"एवं” भूयः पृथक्त्वापत्त्या “हिः” यस्मादू | ॥६५॥ "भूयो भवभावेन" पुनः संसारापत्त्या "न" नैव "सर्वथा" शक्तिक्षयेणापि “जितभयत्वम्” उक्तरूपं, यथा स्यात्तथाह
१ मुक्तात्मनां भवयोग्यतायामक्षीणायां सत्यां कथमपि सर्वथा जितभयत्वं नोत्पद्यते, ब्रह्मसत्तायाः पूर्ववद्विचटनाहेतुतया सत्त्वात् ॥
98060@@@@
Be6
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org