________________
@
@@@
IR एतेन विषयाकाराप्रतिसक्रमादिना ज्ञानस्य प्रतिबिम्बाकारताप्रतिक्षेपः प्रत्युक्तः,विषयग्रहणपरिजाणामस्यैव प्रतिबिम्बत्वेनाभ्युपगमात् , एवं साकारं ज्ञानमनाकारं च दर्शनमित्यपि सिद्धं भवति, ततश्च सर्वज्ञाः सर्वदर्शिनस्तेभ्यो नम इति क्रियायोगः ३१॥
अथ प्रसङ्गसिद्धिमाह-"एतेन" विषयग्रहणपरिणामस्यैवाकारत्वेन, "विषयाकाराप्रतिसङ्कमादिना" विषयाकारस्थग्राह्यसंनिवेशस्याप्रतिसङ्क्रमः-स्वग्राहिणि ज्ञानेऽप्रतिबिम्बनं विषयाकाराप्रतिसङ्क्रमः, विषयाकारप्रतिसङ्कमे हि एकत्वं वा ज्ञानज्ञेययोरेकाकारीभूतत्वात् , विषयो वा निराकारः स्यात् ,तदाकारस्य ज्ञाने प्रतिसङ्क्रान्तत्वाद् ,यदाह धर्मसङ्ग्रहणीकारः"तदभिन्नाकारत्ते, दोण्हं एगत्तमो कहं न भवे ? । नाणे व तदाकारे, तस्साणागारभावोत्ति ॥१॥" आदिशब्दात् प्रति| नियतप्रतिपत्तिहेतो येन तुल्याकारतायां ज्ञानस्य प्रतिषेधो दृश्यः,क्रमवृत्तिनोज्ञेयज्ञानयोः क्षणिकयोः क्षणस्थायिना ज्ञानेन | उभयाश्रितायास्तस्या एव प्रतिपत्तुमशक्यत्वात् , किञ्च-तुल्यत्वं नाम सामान्यं, तच्चैकमनेकव्यक्त्याश्रितमिति कथं न तदाश्रितदोषप्रसङ्गः ?, अत्राप्याह-"सिय तत्तुल्लागारं, जं तं भणिमो ततो तदागारं । अत्रोत्तरं-तग्गहणाभावे नणु, तुल्लतं गम्मई कह णु ? ॥१॥ तुलत्तं सामन्नं, एगमणेगासियं अजुत्ततरं । तम्हा घडादिकज, दीसइ मोहाभिहाणमिदं ॥२॥" ततस्तेन विषयाकाराप्रतिसङ्क्रमादिना कारणेन विज्ञानस्य विषयग्राहिणः प्रतिबिम्बाकारताप्रतिक्षेपो-ज्ञानवादिप्रतिज्ञातो विषयप्रतिबिम्बाकारविज्ञानं न घटते, किन्तु बाह्याकारमेव सत्स्वभावमात्रप्रतिभासीत्येवंरूपः “प्रत्युक्तो"
@@@@@
0000000000000000
09
Jan Educaton Infomation
For Private & Personel Use Only
www.jainelibrary.org