________________
युता.
ललितवि० निराकृतो । “विषयग्रहणेत्यादि” हेतुश्च प्रतीत एव,मुक्तरूपपरिणामस्याकारत्वे सामा(म)यिकविवक्षया साकारं विशेषग्रह
णपरिणामवत् ज्ञानमुपयोगविशेषोऽनाकारं च सामान्यग्रहणपरिणामवद्दर्शनमुपयोगभेद एवेत्यपि सिद्धं भवति ॥ ॥६४॥
एते च सर्वेऽपि सर्वगतात्मवादिभिर्द्रव्यादिवादिभिस्तत्वेन सदा लोकान्तशिवादिस्थानस्था एवे. काष्यन्ते, “विभुनित्य आत्मे” ति वचनाद्, एतदपोहायाह-"शिवमचलमरुजमनन्तमक्षयमव्याबाध-18 लमपुनरावृत्तिसिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः" इह तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिद्धिवाक्षेत्रं, "इह बोदिं चइत्ता णं, तत्थ गंतण सिज्झइ"त्तिवचनात, निश्चयतस्तु तत्स्वरूपमेव, सर्वे का भावा आत्मभावे तिष्ठन्ती" तिवचनात्, एतदेव विशेष्यते, तत्र "शिवम्” इति सर्वोपद्रवरहितत्वा||च्छिवं, तथा स्वाभाविकप्रायोगिकचलनक्रियापोहान्न चलमचलं, तथा रुजाशब्देन व्याधिवेदनाभिधानं ||
ततश्चाविद्यमानरुजमरुजं, तन्निबन्धनयोः शरीरमनसोरभावात् , तथा नास्यान्तो विद्यत इत्यनन्तं, || केवलात्मनोऽनन्तत्वात् , तथा नास्य क्षयो विद्यत इत्यक्षयं, विनाशकारणाभावात् , सततमनश्वरमि-10
॥६४॥ त्यर्थः, तथा अविद्यमानव्याबाधमव्याबाधं,अमूर्तत्वात् ,तत्स्वभावत्वादितिभावना, तथा न पुनरावृत्तिः ५
१ तिष्ठत्य० प्र० । २ रहितत्वा० प्र०। ३ यस्मादपुनरावृत्ति प्र०।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org