SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ६२ ॥ 19900900 | तथा, न हि गुणवृत्तिविलक्षणा काचिदैकान्तिकी ममापि प्रवृत्तिरस्ति, तथाप्रतिभासाद् “इतिः” वाक्यपरिसमाप्तौ “अतः " | एतद्वाक्यात्, "तत्तत्स्वभावत्वसिद्धिः" तेषां गुणानां तत्स्वभावत्वसिद्धिः - द्रव्यस्वभावत्वसिद्धिः, अर्धचेतने पुरुषस्य किल बुद्धिः करणं, प्रकृतिवियोगे च मुक्तावस्थायां करणाभावान्न सर्वज्ञत्वं सर्वदर्शित्वं वा सम्भवतीतिपराकूंत निराकरणायोवाच - " न करणेत्यादि" सुगमं चैतत, ननु नीलपीतादय इव बहिरर्थधर्मा दुःखद्वेषशोकवैषयिकसुखादयः, ततो मुक्तावस्थायां सर्वज्ञत्व सर्व दर्शित्वाभ्युपगमे बहिरर्थवेदनवेलायां सर्वदुःखाद्यनुभवस्तस्य प्राप्नोतीत्याशङ्कापरिहारायाह - "न चौदयिके| त्यादि" न च नैवौदयिकक्रियाभावरहितस्य - असद्वेद्यादिकर्म्मपाकप्रभवस्वपरिणामरहितस्य "ज्ञानमात्रात् " परिज्ञानादेव "दुःखादयो” दुःखद्वेषादयो, हेतुमाह - तथानुभवतस्तत्स्वभावत्वोपपत्तेः । अन्यस्त्वाह - ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषय| त्वात्तयोः सर्वार्थविषयत्वमयुक्तं, तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, नहि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया सम्प्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । | आह - एवमपि ज्ञानेन विषमताधर्म्मविशिष्टा एव गम्यन्ते, न समताधर्म्मविशिष्टा अपि, तथा दर्श१ आत्मद्रव्यस्वभावास्तत्स्वरूपा एव गुणा ज्ञानादय इति सिद्धं निष्पन्नम् । २ कारणं प्र० । ३ परोक्तं तन्निरा० प्र० । Jain Education International For Private & Personal Use Only पं० युता. ॥ ६२ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy