SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ६१ ॥ ललितत्रि० ॐ सत्त्वरजस्तमोलक्षणास्त्रयो गुणाः, तत्साम्यावस्था प्रकृतिः, सैव च प्रधानमित्युच्यते, प्रकृतेर्महान्, महदिति बुद्धेराख्या, महतोऽहङ्कारः आत्माभिमानः, ततः पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि वाक्पाणिपादपायूपस्थलक्षणानि पञ्चैव कर्मेन्द्रियाणि एकादशमिच्छारूपं मनः, तथा पञ्च तन्मात्राणि, गन्धरसरूपस्पर्शशब्दस्वभावानि, तन्मात्रेभ्यश्च यथाक्रमं भूप्रभृतीनि पञ्च महाभूतानि प्रवर्त्तन्त इति, अत्र च प्रकृतिविकारत्वेनाचेतनापि बुद्धिचैतन्यस्वतत्त्व पुरुषोपगमात् सचेतनेवावभासते, 6) तदुक्तं - "पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फेटिकं यथा ॥१॥" अस्य व्याख्याॐ “पुरुषः " आत्मा "अविकृतात्मैव" नित्य एव "स्वनिर्भासं" स्वाकारम् “अचेतनं” चैतन्यशून्यं सत् "मनः” अन्तःकरणं |" करोति” विदधाति "सान्निध्यात्" सांनिध्यमात्रेण, निदर्शनमाह - “ उपाधिः" पद्मरागादिः “स्फटिकम्" उपलविशेषं 6 यथा स्वनिर्भासं करोति, तत्परिणामान्तरापत्तेः, भोगोऽप्यस्य मनोद्वारक एव, अत्राप्युक्तम् – “विभक्के कूपरिणती, बुद्धौ | भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥ १ ॥" अस्य व्याख्या - विभक्ता चासौ आत्मन ईदृक्परिणतिश्च प्रतिबिम्बोदयरूपेति विग्रहः, तस्यां सत्यां, सैव भोग इत्यर्थः, क् या परिणतिरित्याह - " बुद्धौ” अन्तःकरणलक्षणायां "भोगो" विषयग्रहणरूपः अस्य - आत्मनः " कथ्यते" आसुरिप्रभृतिभिः, किंवदित्याह - "प्रतिबिम्बोदयः” प्रतिबिम्बपरिणामः "स्वच्छे" निर्म्मले यथा चन्द्रमसो वास्तवस्य “अम्भसि" उदके तद्वदिति । अथ प्रकृतं व्याख्या१ स्फुटिकं प्र० । २ अन्यत्रा० प्र० । ३ कया प्र० । 940404300099600009999009 Jain Education Inte For Private & Personal Use Only पं० युता. ॥ ६१ ॥ ww.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy