________________
त्यर्थोऽनुपचयः किन्तूपचय एव वृद्धिरूपः, घृतादिपलस्य पलान्तरप्रवेश इव, यद्येवं ततः किमित्याह-उपचये च-सत्तायाः "सैव" प्राक्तनी पुरुषस्य मुक्तस्य वा “सा" सत्तेति "अयुक्तम्" असङ्गतं, कुतो ? यतः “तदन्तरं" सत्तान्तरं पृथक् तत्स-17 तापेक्षया आपन्नः पाठान्तरे आसन्नः-प्राप्तः, स इत्युपचयः, क्वचिच्चासन्नमिति पाठस्तत्र तदन्तरमिति योज्यमिति,
"नीतिः” एषा न्यायमुद्रा ॥ || नैवमन्यस्यान्यत्र लय इति मोहविषप्रसरकटकबन्धः, तदेवं निमित्तकर्तृत्वपरभावनिवृत्तिभ्यां तत्त्व-16
तो मुक्तादिसिद्धिः ३० ॥ एवं जिनजापकतीर्णतारकबुद्धबोधकमुक्तमोचकभावेन वपरहितसिद्धेरा॥ त्मतुल्यपरफलकर्तृत्वसम्पदिति ८॥ एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चे10 ष्यन्ते, "बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते” इति वचनाद्, एतन्निराकरणायाह
___ अथ प्रकृतसिद्धिमाह-"न" नैव "एवं" द्वयोरेकीभावेऽन्यतराभावप्रसङ्गेनोपचये तदन्तरापत्त्या वा “अन्यस्य" सामान्येन मुक्तादेः “अन्यत्र" पुरुषाकाशादौ लय इति, एष लयनिषेधो मोहविषप्रसरकटकबन्धः, एवं निषेधे हि कट| कबन्ध इव विषं न मोहः प्रसरतीति, “तत्" तस्माद् "एवम्” उक्तनीत्या "निमित्तकर्तृत्वपरभावनिवृत्तिभ्यां” निमित्त| कर्तृत्वं च मुख्यकर्तृत्वायोगेन भव्यानां परिशुद्धप्रणिधानादिप्रवृत्त्यालम्बनतया परभावनिवृत्तिश्च लयायोगलक्षणा ताभ्यां
"तत्त्वतो" मुख्यवृत्त्या “मुक्तादिसिद्धिः"मुक्तमोचकसिद्धिः॥“बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते” इति अत्र हि सांख्यप्रक्रिया-10 ल०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org