________________
ललितवि० "नेत्यादि,” न-नैव जगत्कर्तरि-ब्रह्मलक्षण आधारभूते लये-अभिन्नरूपावस्थाने मुक्तानां निष्ठितार्थत्वं, कुत इत्या-13 | पं० युता. Enह-"तत्करणेन" तस्य-जगतः करणेन-ब्रह्मसाङ्गत्येन युक्तानां, अतः कृतकृत्यत्वायोगाद् , अत्रैवाभ्युच्चयमाह-"हीनाI|| दिकरणे च” हीनमध्यमोत्कृष्टजगत्करणे मुक्तानाम् “इच्छाद्वेषादिप्रसङ्गः" सङ्कल्पमत्सराभिष्वङ्गप्राप्तिः, कुत इत्याह-"त
व्यतिरेकेण" इच्छाद्यन्तरेण "तथाप्रवृत्त्यसिद्धेः" वैचित्र्येण प्रवृत्त्ययोगादू, एवं जगत्करणे “सामान्यसंसारिणो" मनुष्या॥ देरन्यतरस्मादू, "अविशिष्टतरम्" अतिजघन्य"मुक्तत्वमिति चिन्तनीयम्" अस्य भावना कार्या, अन्यस्य जगत्कर्तुमशक्त
त्वेन परिमितेच्छादिदोषत्वाद् ,अथ कर्मादिकृतं जगद्वैचित्र्यं, पुरुषस्तु निमित्तमात्रत्वेन कर्तेत्यपि निरस्यन्नाह-"निमित्तकर्तृत्वाभ्युपगमे तु" निमित्तं सन्नसौ कर्त्ता, इच्छादिदोषपरिजिहीर्पयेत्येवमङ्गीकरणे
तत्त्वतोऽकर्तृत्व, स्वातन्त्र्यासिद्धेः, न च द्वयोरेकीभावोऽन्यतराभावप्रसङ्गात् , न सत्तायाः सत्तान्त-1 10 रप्रवेशेऽनुपचयः, उपचये च सैव सेत्ययुक्तं, तदन्तरमासन्नः स इति नीतिः ।
"तत्त्वतो" निरूपचरिततया अकर्तृत्वं पुरुषस्य, हेतुमाह-"स्वातन्त्र्यासिद्धेः” स्वतन्त्रः कतैतिकतलक्षणानुपपत्तेः, तथाऽन्यस्यान्यत्र लयोऽप्यनुपपन्न इति दर्शयन्नाह-"न च" द्वयोः" मुक्तपरमपुरुषयोः “एकीभावो" लयलक्षणः, कुत | इत्याह-"अन्यतराभावप्रसङ्गाद् , अन्यतरस्य-मुक्तस्य परमपुरुषस्य वाऽसत्त्वप्राप्तेरन्यतरस्येतरस्वरूपपरिणतो तत्रं लीनत्वोपपत्तेः, एतदनभ्युपगमे दूषणान्तरमाह-"न" "सत्तायाः" परमपुरुषलक्षणायाः “सत्तान्तरे" मुक्तलक्षणे प्रविष्टे सती-10
१ नारकादिरूपेण हीनादित्वम् । २ तत्त्वे ली०प्र०॥
இருமுருடு
in Education Intematon
For Private Personel Use Only
www.jainelibrary.org