________________
प्रत्यक्षताऽर्थपरिच्छेद एवेति नीत्या बुद्धादिसिद्धिः २९॥ एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते, "ब्रह्मवद्ब्रह्मसङ्गतानां स्थिति' रिति वचनाद्, एतन्निराचिकीर्षयाऽऽह___ "एवं च” अनेन प्रकारेणानुमानादिविषयताऽघटनेन प्रत्यक्षबुद्धिः इन्द्रियवदज्ञाता-स्वयमप्रतीतैव प्रत्यक्षबुद्धिः “स्वकार्यकारिणी” स्वकार्य विषयस्य परिच्छेद्यत्वं तत्कारिणी "इत्यपि” एतदपि , न केवलमस्यानुमानादिविषयत्वमयुक्तमेव, कुतइत्याह-"तत्कार्यप्रत्यक्षत्वेन" तस्य-इन्द्रियस्य कार्य-विज्ञानं तस्य प्रत्यक्षत्वं तेन “वैधात्" वैसदृश्यागुद्धिकृतार्थप्रत्यक्षतायाः, अन्यादृशं हीन्द्रियप्रत्यक्षमन्यादृशं बुद्धेः, इदमेवाह-"अतः” इन्द्रियादू अर्थप्रत्यक्षता-अर्थपरिच्छेद एव विषयप्रतीतिरेवोपलब्धव्यापाररूपा, बुद्धेस्तु विषयस्योपलभ्यमानतैवार्थप्रत्यक्षता, साधर्म्यसिद्धौ च दृष्टान्तसिद्धिरिति ॥ | "मुत्ताणंमोयगाणं" "मुक्तेभ्यो मोचकेभ्यः, चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इति योऽर्थः, न जगत्कर्तरि लये निष्ठितार्थत्वं, तत्करणेन कृतकृत्यत्वायोगात् , हीनादिकरणे चेच्छाद्वेषादिप्रसङ्गः, तद्व्यतिरेकेण तथाप्रवृत्त्यसिद्धेः, एवं सामान्यसंसारिणोऽविशिष्टतरं मुक्तत्वमिति की चिन्तनीयं, निमित्तकर्तृत्वाभ्युपगमे तु
१ स्वस्मिन्नर्थस्फुरायमानस्वभावा बुद्धिप्रत्यक्षता । २ इन्द्रियार्थसन्निकर्षेऽर्थप्रतीतिरूपा प्रत्यक्षता ॥
DOGHODOOॐॐ000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org