SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ युता. ललितवि० व्यक्त्यभावे सामान्याभाव इत्यपिशब्दार्थः "चिन्त्य" परिभाव्यं, वृक्षादिशेषप्रमेयेषु इत्थमेव दर्शनात्, किञ्च-साध्यावि॥ ५९॥ नाभुवो लिङ्गानिश्चितात्साध्यनिश्चायकमनुमानं, न चात्र तथाविधं लिङ्गमस्ति, तथा चाहI नार्थप्रत्यक्षता लिङ्गं, यत्प्रत्यक्षपरिछेद्योऽर्थ एवार्थप्रत्यक्षता, प्रत्यक्षकर्मरूपतामापन्नोऽर्थ एव, न चेयमस्य विशिष्टावस्था विशेषणाप्रतीतौ प्रतीयत इति परिभावनीयम् ॥ ___ "न" नैव "अर्थप्रत्यक्षता" लिङ्गान्तरासम्भवेनापरैर्लिङ्गतया कल्पिता वक्ष्यमाणरूपा “लिङ्ग" हेतुर्बुद्धिग्राहकानुमाI नस्य, कुत इत्याह-“यद्” यस्मात् “प्रत्यक्षपरिच्छेद्योऽर्थ एव" न तु तत्परिच्छेदोऽपि "अर्थप्रत्यक्षता" लिङ्गाभिमता, एतदेव स्पष्टयति-"प्रत्यक्षकर्मरूपतां" प्रत्यक्षस्य-इन्द्रियज्ञानस्य कर्मरूपतां-विषयतामापन्नोऽर्थ एव, न तु तद्व्यतिरिक्तं किञ्चिद्, यदि नामैवं ततः किमित्याह-"न चेयं प्रत्यक्षता “अस्य" अर्थस्य “विशिष्टावस्था" प्रत्यक्षज्ञानविषयभावपरिणतिरूपा "विशेषणाप्रतीती" विशेषणस्य-प्रत्यक्षज्ञानस्याप्रतीतौ-असंवेदने "प्रतीयते” निश्चीयत इति परिभावनीयं, नहि प्रदीपादिप्रकाशाप्रतीतौ तत्प्रकाशितघटादिप्रतीतिरुपलभ्यते, न चान्वयव्यतिरेकाभ्यामनिश्चिताद्धेतोः साध्यप्रतीतिरिति, | स्याद्वक्तव्यं यथेन्द्रियं स्वयमप्रतीतमपि ज्ञानं प्रत्यक्षं जनयति, तथा तद्भवा बुद्धिरपि स्वयमप्रतीताऽप्यर्थप्रत्ययं| करिष्यतीत्याशङ्कां परिहरन्नाह___ एवं चेन्द्रियवदज्ञातखरूपैवेयं खकार्यकारिणीत्यप्ययुक्तमेव, तत्कार्यप्रत्यक्षत्वेन वैधादू ,अतोऽर्थ-18 १ प्रत्यक्षज्ञानस्य विषयग्रहणपरिणामरूपा । २ अज्ञाते ज्ञाने ज्ञेयज्ञानं । 00000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy