________________
@
0000 0@
“अन्यथा” तत्सन्निधानेऽप्यभवने "तदहेतुकत्वोपपत्तेः" सः-अतीतऋतुलक्षणोऽहेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तदुपपत्तेः,तद्धेतुकाऽसौ न प्राप्नोतीति भावः, “अन्यथा बोधेत्यादि" अन्यथा-अखसंविदितत्वे बुद्धोधायोगात्-जीवादितत्त्वस्य संवेदनायोगात् , स्याद्वक्तव्यं-बुद्ध्यन्तरेण बुद्धिसंवेदने प्रकृतसिद्धिर्भविष्यतीत्याशङ्कयाह-"नास्वसंविदि| ताया बुद्धेः-प्रत्यक्षादिरूपाया अवगमे कश्चिदुपायो-बुद्ध्यन्तरलक्षणः, कुत इत्याह
अनुमानादिबुद्धेविषयत्वात् , न ज्ञानव्यक्तिविषयः, तदा तदसत्वात् , न तत्सामान्यं, तदात्मकत्वात् , न च व्यक्त्यग्रहे तद्रह इत्यपि चिन्त्यं, ol "अनुमानादिबुद्धेरविषयत्वाद" अनुमानागमादिबुद्ध्यन्तरस्य तत्राप्रवृत्तेः, एतदेव भावयति-"न ज्ञानव्यक्तिः" प्रैति-17
नियतबहिरर्थयाहिका प्रत्यक्षादिरूपाऽनुमानादिबुद्धेः "विषयो" ग्राह्यः, कुत इत्याह-"तदा" अनुमानादिबुद्धिकाले | "तदसत्त्वात्" तस्या-ज्ञानव्यक्तग्राह्यरूपाया असत्त्वात्, योगपद्येन ज्ञानद्वयस्यानभ्युपगमात्, ताह तत्सामान्य विषयो भविष्यतीत्याह-"न तत्सामान्य" न प्रत्यक्षादिवस्तुसामान्यं, विषय इत्यनुवर्तते, कुत इत्याह-"तदात्मकत्वात्" व्यक्तिरूपज्ञानस्वभावत्वात् , सामान्यस्य व्यक्त्यभावे तदभावाद, अभ्युच्चयमाह-"नच" नैव "व्यक्त्यग्रहे" व्यक्तीतदाधारभूतायामपरिच्छिद्यमानायां "तनहः" सामान्यग्रहः, किञ्चिद्व्यक्तिभ्यो भेदाभ्युपगमे “इत्यपि” एतदपि, न केवलं
१ यद् ज्ञानं खस्वरूपज्ञानेऽसमर्थ तत् ज्ञानान्तरेणापि ज्ञातुमशक्यं तच्च स्वपरभाववेदनाऽनह । २ बुद्धभिन्नं बुद्ध्यन्तरमनुमानादि । •| ३ अनुमानागमादिज्ञानैरगम्यस्वरूपा बुद्धिः प्रत्यक्षतेतिहेतोः । ४ प्रत्येकनियतबहिरर्थस्वरूपग्राहिणी ज्ञानवृत्तिरूपा ॥
GOOGG0000GGGOGO0OCG004
Jain Education International
For Private Personel Use Only
www.jainelibrary.org