________________
पं० युता.
ललितवि० इतिकृत्वा, "एतेन" मृतस्यामृतभावप्रतिषेधेन "ऋत्त्वावर्त्तनिदर्शन"ऋतुर्व्यतीतः परिवर्त्तते पुन' रिति दृष्टान्तः "प्रत्युक्तं"
निराकृतं, कुत इत्याह "न्यायानुपपत्तेः" तामेव दर्शयति "तदावृत्तौ” तस्य-ऋतोर्वसन्तादेरावृत्तौ-पुनर्भवने "तदवस्थाभावेन" तस्या-अतीतवसन्तादिऋतुहेतुकायाश्तादेरङ्कुरादिकायाः पुरुषस्य च वालकुमारादिकाया अवस्थाया भावेन-प्राप्त्या, परिणामान्तराभावात् स एव प्राक्परिणामः प्राप्नोति नापर इति भावः, विपक्षे बाधामाह-"अन्यथा" परिणामान्तरे | "तदावृत्तिः" तस्य ऋतोः आवृत्तिः-पुनर्भवनम् “इति” एतद् "अयुक्तम्" असाम्प्रतं, कुत इत्याह-"तस्य" ऋतोः "तदवस्थानिबन्धनत्वात्” तस्याः चूतादेरङ्कुरादिकाया अवस्थाया निबन्धनत्वात् , तदवस्थाजननस्वभावो ह्यसौ ऋतुः | | कथमिवासौं अवस्था तत्सन्निधौ न स्याद् ?, एतदेव व्यतिरेकत आह
| अन्यथा तदहेतुकत्वोपपत्तेः, एवं न मुक्तः पुनर्भवे भवति, मुक्तत्वविरोधात् , सर्वथा भवाधिकारिनिवृत्तिरेव मुक्तिरिति, तद्भावेन भावतस्तीर्णादिसिद्धिः २८ ॥ एतेऽपि परोक्षज्ञानवादिभिर्मीमांस
कभेदैर्नीत्या अबुद्धादय एवेष्यन्ते, “अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः” इति वचनाद्, एतद्वयवच्छेदार्थमाह-"बुद्धेभ्यः बोधकेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, स्वसंविदितेन ज्ञानेन, अन्यथा बोधायोगात्, नाखसंविदिताया बुद्धेरवगमे कश्चिदुपायः,
१ ज्ञानं परोक्षमेव भवति, न तु प्रत्यक्षं, प्रत्यक्षज्ञानस्य खप्रत्यक्षतामावादित्येवं वदितुं शीलं येषां ते परोक्षज्ञानवादिनस्तैः ।
00000000000000000
Jan Education Intematonal
For Private
Personel Use Only
www.jainelibrary.org