________________
"नैतेषामित्यादि” न-नैव एतेषां-तीर्णानां "जीवितावर्तवत्" जीवितस्य-प्रागनुभूतस्यावर्त्तवत्-पुनर्भवनमिव "भवावों" भवस्य-काष्टकोदयलक्षणस्य क्षीणस्यावर्त्त-उक्तरूपः, कुत इत्याह-"निवन्धनाभावात्" निबन्धनस्य-हेतोर्वक्ष्यमाणस्याभावात् , इदमेव भावयति-"न" नैव "हि:" यस्माद् "अस्य" तीर्णस्य "आयुष्कान्तरवत्" नारकाद्यायुष्कविशेषवद् "भवाधिकारान्तरं" क्षीणतद्भवाधिकारादन्यो भवाधिकारो येनासाविह पुनरावर्त्तते,विपक्षे बाधामाह-"तद्भावे"-तस्यआयुष्कान्तरस्य भवाधिकारान्तरस्य च भावे-सत्तायाम् “अत्यन्तमरणवत्" सर्वप्रकारजीवितक्षयेण मरणस्येव "मुक्त्य| सिद्धेः" मुक्तेः-तीर्णताया असिद्धेः-अयोगाद्, व्यतिरेकमाह-"तत्सिद्धौ च" तस्य-अत्यन्तमरणस्य मुक्तेर्वा सिद्धावभ्युप| गतायां "तद्भावेन" आयुष्कान्तरसाध्येन भवाधिकारान्तरसाध्येन च भावेन "भवनाभावः" परिणतेरभावः, कुत इत्या
ह-"हेत्वभावात्" हेतोः-आयुष्कान्तरस्य भवाधिकारान्तरस्य चाभावात् , पुनस्तदेव प्रतिवस्तूपमया भावयति-"नहि" | "मृतः" परासुः 1 तद्भावेन भवति, मरणभावविरोधात् , एतेन ऋत्वावर्तनिदर्शनं प्रत्युक्तं, न्यायानुपपत्तेः, तदावृत्तौ तदवस्थाभावेन परिणामान्तरायोगात, अन्यथा तस्यावृत्तिरित्ययुक्तं, तस्य तदवस्थानिबन्धनत्वात् ॥ "तद्भावेन" अतीतामृतभावेन भवति, कथमित्याह-"मरणभावविरोधात्" मरणामरणयोरात्यन्तिको विरोध
१ नष्टायाः कर्मबन्धयोग्यतायाः सकाशादन्या नास्ति । २ आयुष्कान्तरस्य भवाधिकारस्य च विद्यमाने सति तीर्णत्वाऽसिद्धेरेव । ३ मृतस्यैवामरणमिव ॥
திருக்கருகரு
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org