SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०००००690000940099603 |" असदेव" न किञ्चिदेवेत्यर्थी, निमित्तं प्रकृतवान्तेः हेतुमाह - "अतिप्रसङ्गात् " नित्यं सत्त्वमसत्त्वं वाऽहेतोरिति प्राप्तेरिति, पुनरप्याशङ्कयाह चितिमात्रादेव तु तदभ्युपगमेऽनुपरम इत्यनिर्मोक्षप्रसङ्गः, तथापि तदसत्त्वेऽनुभवबाधा, न हि | मृगतृष्णिकादावपि जलाद्यनुभवोऽनुभवात्मनाऽप्यसन्नेव, “चितिमात्रादेव” चैतन्यमात्रादेव पुनः स्वव्यतिरिक्तकर्म्मलक्षणसहकारिरहितात् " तदभ्युपगमे" भ्रान्तिमात्राभ्युपगमे “ अनुपरमो” भ्रान्तिमात्रस्यानुच्छेदोऽभ्रान्तज्ञानेष्वपि भ्रान्तिनिमित्ततया परिकल्पितस्य चितिमात्रस्य भावात्, ततः | किमित्याह - "इति” एवम् " अनिर्मोक्षप्रसङ्गः " संसारानुच्छेदापत्तिः, चितिमात्रस्य मोक्षेऽपि भावात्, अभ्युपगम्यापि दूषण| माह - " तथापि " चितिमात्रादेव भ्रान्तिमात्राभ्युपगमेऽपि " तदसत्त्वे" भ्रान्तिमात्रासत्त्वे "अनुभवबाधा" तस्य स्वयं | संवेदनं न प्राप्नोति, न ह्यसच्छशशृङ्गाद्यनुभूयत इति, एनामेव व्यतिरेकतः प्रतिवस्तूपन्यासेन भावयन्नाह - " न ह मृगतृष्णिकादावपि” मरुमरीचिकाद्विचन्द्रादावपि मिथ्यारूपे विषये, आस्तां सत्याभिमते जलादौ "अनुभवः" तज्ज्ञानवृत्तिः " अनुभवात्मना " ज्ञानात्मनाऽप्यसन्नेव, सविषयतया तु स्यादप्यसन्नित्यपिशब्दार्थः ॥ Jain Education International १ निमित्ते सति नैमित्तिकेनावश्यं भवितव्यं, अन्यथा तत्तस्य निमित्तमपि न स्यादनलमिबाङ्करोत्पत्तेरनुच्छेद एव चितिभावे भ्रान्तेः । २ अभ्युपगमेऽपि प्र० । ३ तज्जलाद्यनुभवरूपतया स्वस्त्येव ॥ For Private & Personal Use Only 5000090050 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy