SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०००००690000940099603 |" असदेव" न किञ्चिदेवेत्यर्थी, निमित्तं प्रकृतवान्तेः हेतुमाह - "अतिप्रसङ्गात् " नित्यं सत्त्वमसत्त्वं वाऽहेतोरिति प्राप्तेरिति, पुनरप्याशङ्कयाह चितिमात्रादेव तु तदभ्युपगमेऽनुपरम इत्यनिर्मोक्षप्रसङ्गः, तथापि तदसत्त्वेऽनुभवबाधा, न हि | मृगतृष्णिकादावपि जलाद्यनुभवोऽनुभवात्मनाऽप्यसन्नेव, “चितिमात्रादेव” चैतन्यमात्रादेव पुनः स्वव्यतिरिक्तकर्म्मलक्षणसहकारिरहितात् " तदभ्युपगमे" भ्रान्तिमात्राभ्युपगमे “ अनुपरमो” भ्रान्तिमात्रस्यानुच्छेदोऽभ्रान्तज्ञानेष्वपि भ्रान्तिनिमित्ततया परिकल्पितस्य चितिमात्रस्य भावात्, ततः | किमित्याह - "इति” एवम् " अनिर्मोक्षप्रसङ्गः " संसारानुच्छेदापत्तिः, चितिमात्रस्य मोक्षेऽपि भावात्, अभ्युपगम्यापि दूषण| माह - " तथापि " चितिमात्रादेव भ्रान्तिमात्राभ्युपगमेऽपि " तदसत्त्वे" भ्रान्तिमात्रासत्त्वे "अनुभवबाधा" तस्य स्वयं | संवेदनं न प्राप्नोति, न ह्यसच्छशशृङ्गाद्यनुभूयत इति, एनामेव व्यतिरेकतः प्रतिवस्तूपन्यासेन भावयन्नाह - " न ह मृगतृष्णिकादावपि” मरुमरीचिकाद्विचन्द्रादावपि मिथ्यारूपे विषये, आस्तां सत्याभिमते जलादौ "अनुभवः" तज्ज्ञानवृत्तिः " अनुभवात्मना " ज्ञानात्मनाऽप्यसन्नेव, सविषयतया तु स्यादप्यसन्नित्यपिशब्दार्थः ॥ Jain Education International १ निमित्ते सति नैमित्तिकेनावश्यं भवितव्यं, अन्यथा तत्तस्य निमित्तमपि न स्यादनलमिबाङ्करोत्पत्तेरनुच्छेद एव चितिभावे भ्रान्तेः । २ अभ्युपगमेऽपि प्र० । ३ तज्जलाद्यनुभवरूपतया स्वस्त्येव ॥ For Private & Personal Use Only 5000090050 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy