________________
रूपत्वाद् , अन्यथा सकलमुक्तिभावेनेष्टसंसारिवदुपचरितसंसारभाजः सर्वसंसारिण इति बलादापद्यते, 18 अनिष्टं चैतदिति, व्यावृत्तच्छद्मान इति २६ ॥ एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया |
चैतद्रूपत्वात् स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पदिति ७।। | "असहजा" जीवेनासहभाविनी जीवस्वभावो न भवतीत्यर्थः "अविद्या" कर्मकृतो बुद्धिविपर्यासः, कर्मव्यावृत्तौ तद्वद्या16 वृत्तेः "इति” एवं कार्यकारणरूपं “व्यावृत्तं छदूम येषामित्यादि” सुगमं चैतत् नवरं “न चान्यथेति" न च-नैवान्यथामोक्षात्पुनरिहागमनाभावे "इष्टसंसारिवदिति" मोक्षव्यावृत्तविवक्षितगोशालकादिसंसारिवत् ॥
एतेऽपि कल्पिताविद्यावादिभिस्तत्त्वान्तवादिभिः परमार्थेनाजिनादय एवेष्यन्ते "भ्रान्तिमात्रम-10 सदविद्येति" वचनाद , एतव्यपोहायाह___ "तत्त्वान्तवादिभिरिति” तत्वान्त-तत्त्वनिष्ठारूपं निराकारं स्वच्छसंवेदनमेव वस्तुतया वदितुं शीलं येषां ते तथा तैः, एते च सुगतशिष्यचतुर्थप्रस्थानवर्तिनो माध्यमिका इति सम्भाव्यते, तेषामेव निराकारं स्वच्छसंवेदनमात्रमन्तरेण संवेदनान्तराणां भ्रान्तिमात्रतया एकान्तत एवासत्त्वाभ्युपगमात् , तथा च सौगतप्रस्थानचतुष्टयलक्षणमिदं, यथा-अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सूत्रान्तिकैराश्रितः। योगाचारमतानुगैरभिहिता
१०खभावा प्र० । २ खखरूपेण पूर्णाऽवस्थाज्ञानमात्रं ॥
இருருருருருருருருருருருருருருரு
Jan Education Inteman
For Private Personel Use Only
www.jainelibrary.org