SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ TM पं० युता. ललितवि० शक्यं, परस्परापेक्षात्मलाभत्वाद्धेयोपादेययोः, इस्वदीर्घयोरिव पितृपुत्रयोरिव वेति सर्वमनवबुध्यमानाः कथमिवाविकलं परार्थ सम्पादयेयुरिति ॥५५॥ No "वियदृच्छउमाणं” व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म-घातिकाभिधीयते ज्ञानावरणादि, तद्वन्धयोग्यतालक्षणश्च भवाधिकार इति, असत्यस्मिन्कर्मयोगाभावात् , अत एवाहुरपरे___ "तद्वन्धेत्यादि” तस्य-ज्ञानावरणादिकर्मणो बन्धयोग्यता-कषाययोगप्रवृत्तिरूपा लक्षणं-स्वभावो यस्य स तथा, चकारः समुच्चये भिन्नक्रमश्च, ततो भवाधिकारश्च छदूमकारणत्वाच्छद्मोच्यते, कुत इत्याह-"असतीत्यादि” सुगम चैतद् “अत एव" भवाधिकाराभावे कर्मयोगाभावादेवाहुः-ब्रुवते अपरे-तीर्थ्याः ___ असहजाऽविद्येति, व्यावृत्तं छद्म येषां ते तथाविधा इति विग्रहः, नाक्षीणे संसारेऽपवर्गः क्षीणे| च न जन्मपरिग्रह इत्यसत् , हेत्वभावेन सदा तदापत्तेः, न तीर्थनिकारो हेतुः, अविद्याऽभावेन तत्सं-10 भवाभावात् , तद्भावे च छद्मस्थास्ते, कुतस्तेषां केवलमपवर्गों वेति ?, भावनीयमेतत् , न चान्यथा भव्योच्छेदेन संसारशून्यतेत्यसदालम्बनं ग्राह्य, आनन्त्येन भव्योच्छेदासिद्धेः, अनन्तानन्तकस्यानुच्छेद १ एवं व्यावृ० प्र०। PTTH t ếch về TT - VIỆT 4 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy