SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ललितवि० पं० युता. ॥५४॥ 90000000000 क्षय एव दुरुपपाद इत्याशङ्कयाह-क्षयश्च उक्तरूपः “प्रतिपक्षसेवनया" मिथ्यादर्शनादीनां सामान्यबन्धहेतूनां ज्ञानप्रत्यनीकान्तरायोपघातादीनां च विशेषहेतूनां प्रतिपक्षस्य-विरोधिनः सम्यग्दर्शनादेर्शानवहुमानादेश्च सेवनया-अभ्यासेन, प्रयोगोऽत्र-यद्यस्य कारणेन सह विरुध्यते तत्तद्विरुध्यमानसेवने क्षीयते, यथा रोमोद्धषणादिकारणे शीतेन विरुध्यमानस्याग्नेरासेवने रोमोद्धषणादिर्विकारः, विरुध्यते चावरणहेतुभिर्मिथ्यात्वदर्शनादिभिः सह सम्यग्दर्शनादिगुणकलाप इति कारणविरुद्धोपलब्धिः । नन्वतीन्द्रियत्वादावरणक्षयस्य कथं तेन हेतोः प्रतिबन्धसिद्धिरित्याशङ्कयाह तत्तानवोपलब्धेः, तत्क्षये च सर्वज्ञानं, तत्स्वभावत्वेन, दृश्यते चावरणहानिसमुत्थो ज्ञानातिशयः । __ "तत्तानवोपलब्धेः" तस्य-आवरणस्य "तान" तुच्छभावो देशक्षयलक्षणप्रत्ययेन प्रतिपक्षसेवनया तस्योपलब्धेः, स्वा. नुभवादिसिद्धज्ञानादिवृद्ध्यन्यथानुपपत्तेः प्रतिबन्धसिद्धिः, नच वक्तव्यं-प्रतिपक्षसेवनया तानवमात्रोपलब्धेः कथं सर्वा. वरणक्षयनिश्चय इति ?, ये यतो देशतः क्षीयमाणा दृश्यन्ते ते ततः प्रकृष्टावस्थात् सम्भवत्सर्वक्षया अपि, चिकित्सासमीरणादिभ्य इव रोगजलधरादय इति, एवं च जीवाविभागीभूतस्यापि चिकित्सातो रोगस्येवावरणस्य प्रतिपक्षसेवनया क्षयोऽदुष्ट इति | यत्किञ्चिदेतत्-यदुतावरणक्षय एव दुरुपपाद इति । अथ प्रकृतसिद्धिमाह-"तत्क्षये च” आवरणक्षये च सर्वज्ञान-सर्वज्ञेयावबोधः, कुत इत्याह-"तत्स्वभावत्वेन" स्वभावो ह्यसौ जीवस्य यदावरणक्षये सर्वज्ञानं प्रतीयते, एतदेव भावयति-"दृश्यते च" स्वानुभवानुमानादिभिः "आवरणहानिसमुत्थो" निद्राद्यावरणक्षयविशेषप्रभवो'ज्ञानातिशयो” ज्ञानप्रकर्षः, ततः किमित्याह-2 १ दुर्बोध्यः । २ पडिणियत्तणनिन्हवउवधायपओसअन्तराएणं इत्यादीनां । ३ कारणविरोधज्ञानात्सुबोधो भवतीति। ४ हेतुसम्बन्धज्ञाननिष्पत्तिः।। 90000GOOOOOOOOO ॥५४॥ है Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy