SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 0000000000000000 चैकत्रानेकप्रतिबिम्बोदयासम्भवात् , सम्भवे वा प्रतिबिम्बसाङ्कोपपत्तेः, तदनुसारेण परस्परसङ्कीर्णवस्तुप्रतिपत्तिप्रसङ्गादिति, एकस्मिन्नपि घटादौ सद्रूपे परिच्छिन्ने तद्रूपानतिक्रमात् शुद्धसङ्ग्रहनयाभिप्रायेण सर्वसत्तापरिच्छेदः सिध्यति । आह–सत्तामात्रपरिच्छेदेऽपि विशेषाणामनवबोधात् कथं सर्वावबोधसिद्धिरित्याशङ्कयाहa विशेषाणामपि ज्ञेयत्वेन ज्ञानगम्यत्वात् , न चैते साक्षात्कारमन्तरेण गम्यन्ते, सामान्यरूपानतिक्रमात्, निरावरणत्वं चावरणक्षयात् , क्षयी च प्रतिपक्षसेवनया, "विशेषाणामपि" न केवलं सामान्यस्य "ज्ञेयत्वेन" ज्ञानविषयत्वेन "ज्ञानगम्यत्वात्" ज्ञानेन-अवबोधरूपेणावबोधनीयरूपत्वात्, यद्येवं ततः किमित्याह-"न च" नैव "एते" विशेषाः "साक्षात्कार" दर्शनोपयोगम् “अन्तरेण" विना, तेनासाक्षात्कृता इत्यर्थो “गम्यन्ते" बुध्यन्ते, कथमित्याह-"सामान्यरूपानतिक्रमात्" सामान्यरूपातिक्रमे ह्यसद्रूपतया खरविषाणादिवदसन्त एव विशेषाः स्युरिति, इदमुक्तं भवति-दर्शनोपयोगेन सामान्यमात्रावबोधेऽपि तत्स्वरूपानतिक्रमात् सङ्ग्रहनयाभिप्रायेण विशेषाणामपि ग्रहणाच्छद्मस्थोऽपि सर्वदा सर्वज्ञस्वभावः स्यात्, घातिकर्मक्षये तु सर्वनयसंमत्या निरुपचरितैव सर्वज्ञस्वभावता, ज्ञानक्रियायोगपद्यस्यैव मोक्षमार्गतेति, सर्वदर्शनस्वभावता तु सामान्यावबोधत एव सिद्धेति न तसिद्धये यत्नः कृत इति । इत्थं विशेषणसिद्धिमभिधाय विशेष्यसिद्ध्यर्थमाह-"निरावरणत्वं च" प्राग | हेतुत योपन्यस्तम् “आवरणक्षयाद्” आवरणस्य-ज्ञानावरणादेः क्षयात्-निर्मूलप्रलयात् । ननु जीवाविभागीभूतस्यावरणस्य १ सामान्यावबोधेऽपि । २ बौद्धसम्मतविशेषमात्रतावेदनेन व्यापाररूपेणार्थज्ञानेन ज्ञातं । ३ जीवप्रदेशैः सह निर्विभागतया बद्धस्य । 0000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy