________________
ललितवि० __ "तत्त्वमिष्टं तु पश्यत्विति-" सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेते'गृध्रानुपास्महे ॥१॥
पं० युता. इतिसम्पूर्णश्लोकपाठः, “सर्वज्ञानेत्यादि" सर्वज्ञानदर्शनस्वभावत्वेन नयान्तराभिप्रायेण सार्वदिके सर्वज्ञसर्वदर्शित्वरूपे सति | "निरावरणत्वेन" घातिक्षयात् अप्रतिहतवरज्ञानदर्शनधरा भगवन्तः, व्यतिरेकमाह
अन्यथा तत्त्वायोगात् , सर्वज्ञस्वभावत्वं च सामान्येन सर्वावबोधसिद्धेः, "अन्यथा" उक्तप्रकारव्यतिरेकेण "तत्त्वायोगात्" अप्रतिहतज्ञानदर्शनधरत्वायोगात् , यतो न निरावरणा अपि का धर्मास्तिकायादय उक्तरूपविकलाः सन्त एकेन्द्रियादयो वा उक्तरूपयोगेऽप्यनिरावरणाः प्रकृतसूत्रार्थभाज इति, हेतु.| विशेषणसिद्ध्यर्थमाह-"सर्वज्ञस्वभावत्वं च” हेतुविशेषणतयोपन्यस्तं "सामान्येन" महासामान्यनाम्ना सत्तालक्षणेन “सर्वावबोधसिद्धेः" सर्वेषां-धर्मास्तिकायादिज्ञेयानामवबोधसिद्धेः-परिच्छेदसद्भावादिति, ज्ञेयवस्तुप्रतिबिम्बसङ्क्रमस्य तु
तदाकारत्वे ज्ञानस्याभ्युपगम्यमाने अनेकदोषप्रसङ्गात् व्याप्त्यनुपपत्तेः, धर्मास्तिकायादिष्वमूर्त्तत्वेनाकाराभावे प्रतिबिIला बायोगात् , तस्य मूर्तधर्मत्वात् , तथा तत्प्रतिबद्धवस्तुसङ्क्रमाभावेऽभावात् ,न ह्यङ्गनावदनच्छायाणुसङ्क्रमातिरेकेणाऽs
दर्शके तत्प्रतिबिम्बसम्भवोऽस्ति, अम्भसि वा निशाकरबिम्बस्येति, अन्यथाऽतिप्रसङ्गात् , उक्तं च परममुनिभिः-"सामा तु दिया छाया, अभासुरगया निसं तु कालाभा । सच्चेव भासुरगया, सदेहवण्णा मुणेयवा ॥१॥ जे आयरसस्संतो, | देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा न इयरेसिं॥२॥” इत्यादि, चित्रास्तरणाद्यनेकवस्तुग्रहणावसरे १० देतत् । २ सर्वज्ञज्ञानदर्शनत्वेन सावरणत्वेन च । ३ अप्रतिहतवरज्ञानदर्शनधरा न भवन्ति । ४ चित्रगतवर्णविच्छित्तिनीलपीतरेखादयः। पर
00000000000000000
॥
५
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org