SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ललितवि० प्रणीतधर्मचक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो-गतिविशेषाः नारकतिर्यग्नरामरलक्षणाः पं० युता. ॥५२॥ तदुच्छेदेन तदन्तहेतुत्वाच्चतुरन्तं, चतुर्भिर्वाऽन्तो यस्मिंस्तच्चतुरन्तं, कैश्चतुर्भिः ?-दानशीलतपोभाव-18| नाख्यैर्द्धम्मैः, अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते, चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वादिलक्षणभावशत्रुकालवनात् , तथा च लूयन्त एवानेन भावशत्रवो मिथ्यात्वादय इति प्रतीतं, दानाद्यभ्यासादाग्रहनिवृत्त्या दिसिद्धेः, महात्मनां खोनुभवसिद्धमेतत् । एतेन च वर्तन्ते भगवन्तः तथाभव्यत्वनियोगतो वरबोकाधिलाभादारभ्य तथातथौचित्येन आसिद्धिप्राप्तेः, एवमेव वर्तनादिति।। ___ "सुसंवृतेत्यादि" सुसंवृतः-सर्वथाऽनुद्घाटितः काञ्चनस्य रत्नानां च यः करण्डको-भाजनविशेषः तत्प्राप्तितुल्या हिः–यस्मात्प्रथमधर्मस्थानप्राप्तिः-धर्मप्रशंसादिरूपा, यथा हि कश्चित्क्वचिदनुद्घाटितं काञ्चनरत्नकरण्डकमवाप्नुवंस्तदन्तर्गतं काञ्चनादि वस्तु विशेषतोऽनवबुध्यमानोऽपि लभते, एवं भगवन्तोऽपि प्रथमधर्मस्थानावाप्तौ मोक्षावसानां कल्याणसम्पदं तदाऽनवबोधेऽपि लभन्ते एव, तदवन्ध्यहेतुकत्वात्तस्याः, "इति" इत्येवम् “अन्यैरपि" बौद्धैरैभ्युपगमात्, | १ धने मूच्छितो न ददाति कुटुम्बे मूछितो न शीलं कुरुते न प्रवजितुं दत्ते देहे मूछितस्तपो न तपति न विरतिं करोतीति, मूर्छा|निवृत्तौ तु सर्व भवतीत्यादि ज्ञेयं । २ महात्मनामनु० प्र० । ३ तथाहि प्र०। १ वुद्धैः । dan teman For Private Personal use only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy