SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ "स्वकार्ये" कृत्स्नकर्मक्षयलक्षणे, कयेत्याह-"स्वाङ्गोपचयकारितया" स्वाङ्गाना-मनुजत्वार्यदेशोत्पन्नत्वादीनामधिकृतधर्मलाभहेतूनामुपचयः-प्रकर्षः तत्कारितया "नीतः" प्रापितः "स्वात्मीभावं" निस्वभावरूपं, कथमित्याह-"तत्प्रकर्पस्य" धर्मप्रकर्षस्य यथाख्यातचारित्रतया “आत्मरूपत्वेन" जीवस्वभावत्वेन । आह-इत्थं धर्मसारथित्वभवने को हेतुरित्याह-"भावधर्माप्ती" क्षायोपशमिकादिधर्मलाभे "हिः" स्फुटं "भवत्येव" न न भवति, “एतत्" धर्मसारथित्वम् “एवं" सम्यक्प्रवर्तनयोगादिप्रकारेण, कुत इत्याह-"तदाद्यस्थानस्यापि” धर्मप्रशंसादिकालभाविनो धर्मविशे-16 | षस्यापि, किं पुनर्वरबोधेः प्राप्तौ ? "एवंप्रवृत्तेः" धर्मसारथीकरणेन भगवतां प्रवृत्तेः, कुत इत्याह-"अवन्ध्यवीजत्वाद्" अनुपहतशक्तिकारणत्वाद्धर्मसारथित्वं प्रति, न हि सर्वथा कारणेऽसत्कार्यमुत्पद्यत इति वस्तुव्यवस्था, परमतेनापि समर्थयन्नाहका सुसंवृतकाञ्चनरत्नकरण्डकप्राप्तितुल्या हि प्रथमधर्मस्थानप्राप्तिरित्यन्यैरप्यभ्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसारथयः २३ ॥ तथा 'धम्मवरचाउरंतचकवट्टीणं' धम्र्मोऽधिकृत एव, स एव । कि वरं-प्रधान, चतुरन्तहेतुत्वात् चतुरन्तं, चक्रमिव चक्रं, तेन वर्तितुं शीलं येषां ते तथाविधाः, इदमत्र हृदयम्-यथोदितधर्म एव वरं-प्रधानं चक्रवर्तिचक्रापेक्षया लोकद्वयोपकारित्वेन कपिलादि १ जिन० प्र० । २ चक्रवादि० प्र० । 00000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy