SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ललितवि०यविदः।एवं दमनयोगेन, दान्तो ह्येवं धर्मः कर्मवशितया कृतोऽव्यभिचारी अनिवर्त्तकभावेन नियुक्तः पं० युता. | "एतेन" सम्यक्प्रवर्तनयोगसाधनेन, किमित्याह-"पालनायोगः" पालनस्यायोगः-अघटनं "प्रत्युक्तो” निराकृतः, ॥५१॥ कुत इत्याह- सम्यकूप्रवर्त्तनस्य” उक्तरूपस्य “निर्वहणफलत्वात्" पालनफलत्वाद्, अथ कथमयं नियमो यदुत-पालनफलमेव सम्यकप्रवर्तनमित्याह-"न" नैव "अन्यथा" पालनाभावे "सम्यक्त्वं” सम्यग्भावः प्रवर्तनस्य, "इति" एवं "समयविदः” प्रवचनवेदिनो वदन्ति । अथ तृतीयहेतुसिद्धिमाह-"एवमिति" यथा सम्यक्प्रवर्तनपालनाख्यहेतुद्वयाद्धर्मसारथित्वं तथा दमनयोगेनापीत्यर्थो, “दमनयोगेन" सर्वथा स्वायत्तीकरणेन । अमुमेव साधयन्नाह-"दान्तो" वशीकृतो "हिः" स्फुटम् “एवं" वक्ष्यमाणेन अव्यभिचारीकरणस्वकार्यनियोगस्वात्मीभावनयनरूपप्रकारत्रयेण, धर्मः, कयेत्याह-“कर्मवशितया” कर्म-चारित्रमोहादि वशि-वश्यमबाधकत्वेन येषां ते तथा तद्भावस्तत्ता तया, तदेव प्रकार-19 त्रयमाह-"कृतो" विहितः "अव्यभिचारी" अविसंवादकः, कथमित्याह-"अनिवर्तकभावेन” आफलप्राप्तेरनुपरमस्वभावेन “नियुक्तो” व्यापारितः स्वकार्ये स्वाङ्गोपचयकारितया नीतः स्वात्मीभावं, तत्प्रकर्षस्यात्मरूपत्वेन । भावधर्माप्तौ हि भवत्येवैतदेवं, तदाद्यस्थानस्याप्येवंप्रवृत्तेरवन्ध्यबीजत्वात् , १ तदावरणीयकर्मणः खायत्तीकरणेन । இருபாதகருதும் 00000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy