________________
पेक्षणात्-साध्यत्वेनाऽऽश्रयणात्, एतदपि कुत इत्याह-"प्रवर्तकज्ञानसिद्धेः” अर्थित्वगर्भप्रवृत्तिफलस्य ज्ञानस्य भावात् , प्रदर्शकाद्यन्यज्ञानेन प्रवृत्तेरयोगात् , साऽपि कथमित्याह__ अपुनर्बन्धकत्वात् प्रकृत्याभिमुख्योपपत्तेस्तथागाम्भीर्ययोगात् साधुसहकारिप्राप्तेरनुबन्धप्रधान-18 त्वात् अतीचारभीरुत्वोपपत्तेः २।। __ "अपुनर्बन्धकत्वात्" पापं न तीव्रभावात्करोतीत्यादिलक्षणोऽपुनर्बन्धकस्तद्भावात् , तदपि कथमित्याह-"प्रकृत्याभिमुख्योपपत्तेः" प्रकृत्या-तथाभब्यत्वपरिपाकेन स्वभावभूतया धर्म प्रति प्रशंसादिनाऽनुकूलभावघटनात् , तथाशब्दः सम्यक्प्रवर्तनयोगस्यैव प्रथमहेतोः सिद्धये परस्परापेक्षवक्ष्यमाणहेत्वन्तरचतुष्टयसमुच्चयार्थः, “तथागाम्भीर्ययोगाच्च” सम्यक् (प्र) वर्तनयोगो गाम्भीर्य चास्याचिन्त्यत्रिभुवनातिशायिकल्याणहेतुशक्तिसम्पन्नता, एतदपि कुत इत्याह-"साधुसहकारिप्राप्तेः" फलाव्यभिचारिचारुगुर्वादिसहकारिलाभात् , इयमपि कथमित्याह-"अनुबन्धप्रधानत्वात्" निरनुबन्धस्योक्तसहकारिप्राप्त्यभावात् , तदपि कथमित्याह-"अतिचारभीरुत्वोपपत्तेः" अतिचारोपहतस्यानुबन्धाभावात् । इत्थं प्रथमहेतुसिद्धिमभिधाय द्वितीयसिद्ध्यर्थमाह। एतेन पालनाऽयोगः प्रत्युक्तः, सम्यक्प्रवर्त्तनस्य निर्वहणफलत्वात् , नान्यथा सम्यक्त्वमिति सम
இருருருருருருருருருருக
१ उत्पादनात्सम्पादनाद्वा ।
Jain Education Intematonal
For Private
Personel Use Only
www.jainelibrary.org