SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ४९ ॥ दिनीपद्मासद्मभूतं पद्मिनीखेटं नाम नगरं तत्राभ्यस्तजिनधम्मों जिनधर्म्मनामधेयः श्रेष्ठः श्रीसञ्चयसमाश्रयः श्रेष्ठी वसति | स्म, तथाऽपरः सागरदत्ताभिधानः प्रभूतधननिधानं निखिलजनप्रधानं जिनधर्म्मश्रावकपरममित्रं दीनानाथादिदयादान| परायणस्तस्मिन्नेव पुरे श्रेष्ठी तिष्ठति स्म, स च प्रतिदिनं जिनधर्म्मश्रावकसमेतो याति जिनालयं, पर्युपास्ते पञ्चप्रकाराचारधारिणः श्रमणान् । अन्यदा तच्चरणान्तिके धर्म्ममाकर्णयन्निमां गाथामाकर्णयाञ्चकार, यथा - " जो कारवेइ पडिमं, | जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे भवमहणं धम्मवररयणं ॥ १ ॥” अवगतश्चानेनास्या भावार्थो, भवि तव्यतानियोगतः समारोपितश्चेतसि, गृहीतः परमार्थबुद्ध्या, निवेदितः स्वाभिप्रायः श्रावकाय, कृता तेनापि तदभिप्राय| पुष्टिः, तदनु कारितवानसौ सकलकल्याणकारिणीं कल्याणमयीं जिनपतिप्रतिमां, प्रतिष्ठापयामास स महता विभवेन । तेन च सागरदत्त श्रेष्ठिना पूर्वमेव नगरबहिष्कारितं रुद्रायतनम्, अन्यदा तत्र पवित्रकारोपणदिने जटाधारिणः प्रव्रजिताः | पशुपति लिङ्गपूरणनिमित्तं शठप्रकृतयो मठेभ्यो घृतादिपूर्णकुम्भान्निष्कासयामासुः, तदधोभागे च भूयस्यो घृतपिपीलिकाः पिण्डीभूता भूतवत्यः, तेषु च निष्कास्यमानेषु भूतले ता निपेतुः, ते च ताः पथि पतिता निर्दयतया मर्दयन्तः सञ्चरन्ति स्म, सोऽपि करुणा चेतास्तच्चरणचूर्यमाणा वस्त्रप्रान्तेनोत्सारयाञ्चकार, तं चोत्सारयन्तं दृष्ट्वा एकेन जटाधारिणा धर्म| मत्सरिणा घृतपिपीलिकापुञ्जं पादेनाक्रम्योपहसितः सागरदत्तः श्रेष्ठी - अहो श्रेष्ठिन् ! श्वेताम्बर इव दयापरः संवृत्तोऽसि, ॐ ततोऽसौ वणिक विलक्षीभूतः किमयमेवमाहेत्यभिधाय तदाचार्यमुखमवालोकत, तेनापि तद्वचनमपकर्णितं, ततश्चिन्तितं 59000609699000000000 Jain Education International For Private & Personal Use Only पं० युता. 11 89 11 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy