________________
मजगद्गुरुचरणारविन्दवन्दनाय तन्नगरनायको जितशत्रुनामा नरपतिः,प्रणिपत्य सकलकमलानिकेतनं जिनपतिपदकमलमुपविष्टो घटितकरकुड्मलो भगवच्चरणमूले, समाकर्णितवान् कर्णामृतभूतां भगवद्देशनां, तदनु जानन्नपि जनबोधनाय विनयपूर्व प्रणम्य पप्रच्छ परमगुरुगणधरो, यथा-भगवन्नमुष्यां मनुष्यामरतिर्यक्कुलसङ्घलायां पर्षदि कियद्भिर्भव्यजन्तुभिरपूर्वरभ्युपगतं सम्यक्त्वं,परीतः कृतः संसारसागरः, पात्रीकृतो निवृतिसुखानामात्मेति ?, ततः कुन्दकान्तदन्तदीप्तिभिरुद्योतयनभोऽङ्गणं जगाद जगन्नाथो, यथा-सौम्य ! समाकर्णय न केनचित्तुरङ्गरत्नमपहायापरेणेति, ततः श्रुत्वा सर्वज्ञवचनमवोचज्जितशत्रुभूपतिः-भगवन् ! कौतुकाकलितचित्तो जिज्ञासामि तुरगवृत्तान्तमहं । अन्यच्च-भगवन्नहमस्मिन्नश्वरत्ने समारुह्य चलितस्ते चलननलिनमभिवन्दितुं, विलोक्य त्रिलोकीतिलकतुल्यं समवसरणमवतीर्णस्तुरङ्गमात् , प्रवृत्तः पद्भयामेवागन्तुं, तावत्सकलजन्तुजातचित्तानन्ददायिनी सजलजलदनादगम्भीरां गम्भीरभवपयोधिपोतोपमा समाकर्ण्य भगवद्देशनामानन्दका पयःप्लावितपवित्रनेत्रपात्रो निश्चलीकृतकर्णयुगलः समुल्लसितरोमकूपो मुकुलिताक्षः क्षणमात्रमवस्थितोऽसावश्वः, तदनु |
पुनर्द्धर्मश्रवणविश्राणितश्रवणोपयोगः समागतः समवसरणतोरणान्तिकं, तत्र चापूर्व प्रमोदरसमनुभवन् भूमिन्यस्तजानुयुगलो गलन्निखिलाशुद्धकलिमलः कथयन्निव निजमानसविशदवासनां शिरसाऽभिवन्ध भगवन्तं तथास्थित एवासितुमारब्धवान् , ततस्तदेवंविधमश्वविलसितं विलोक्य विस्मितोऽहं कदाचिददृष्टपूर्वाश्चर्यपूर्यमाणमानसः समागतो भगवत्समीपमिति, ततः कथयतु मथितमिथ्यात्वो भगवान् किमेतदिति, भगवता भणितं-सौम्य ! समाकर्णय-समस्ति समस्तमे
१ पाशीकृतो० प्र०।
00000000000
ल०९
Jain Education Intel
For Private & Personel Use Only
M
w.jainelibrary.org