SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ललितवि० पं० युता. ॥४८॥ 000000000000000 भूपाल कुलकमलखण्डमण्डनामलराजहंसो भुवनत्रयाभिनन्दितपद्मापदपद्मावतीदेवीदिव्योदरशुक्तिमुक्ताफलाकारः श्रीमुनिसुव्रततीर्थनाथो मगधमण्डलमण्डनराजगृहपुरपरिपालितप्राज्यराज्यः सारस्वतादिवृन्दारकवृन्दाभिनन्दितदीक्षावसरः तत्कालमिलितसमग्रवासवविसरविरचितोदारपूजोपचारः चारकाकारसंसारनिःसारसज्या प्रव्रज्यां जग्राह, तदनु पवनवदप्रतिबद्धतया निजचलनकमलपांशुपातपूतं भूतलं कुर्वन् कियन्तमपि कालं छद्मस्थतया विहृत्य निशातशुक्लध्यानकुठारधाराव्यापारविलूनदुरन्तमोहतरमूलजालः सकल कालभाविभावस्वभावावभासनपटिष्ठं केवल ज्ञानमुत्पादयामास, समुत्पन्नज्ञानं च भगवन्तमासनचलनानन्तरं विज्ञाय भक्तिभरनिर्भरी निखिलसुरपतयो विहितसमवसरणादिरमणीयसपर्याः पर्यायेण यथास्थानमुपविश्य भगवन्तं पर्युपासयामासुः, भगवांश्च सनीरनीरद इव भव्यजन्तुसन्तानशिखिमण्डलोल्लासनस्वभावो भासुराभिनवाञ्जनपुञ्जसङ्काशकायः कषायग्रीष्मसमयसंतप्तप्राणिसन्तापापनोददक्षो विक्षिप्तान्धकारभामण्डलतडिल्लतालङ्कतः स्फुरद्धर्मचक्रकान्तिकलापोत्पादितनभोभूषणाऽऽखण्डलकोदण्डाडम्बरः सौधर्मेशानसुरपतिपाणिपल्लवप्रेर्यमाणधवलचामरोपनिपातप्राप्तबलाकापतिप्रभवशोभः सकलसत्त्वसाधारणाभिः सद्धर्मदेशनानीरधाराभिः स्वस्थीचकार निःशेषप्राणिहृदयभूप्रदेशानिति । ततः प्रवृत्ते तीर्थेऽन्यदा भानुमानिव भगवान प्रबोधयन् भव्यपद्माकरान् दक्षिणापथ | मुखमण्डनं जगाम भृगुकच्छाभिधानं नगरमिति, समवससार च तत्र पूर्वोत्तरदिग्भागभाजि कोरिण्टकनामन्युद्याने । | अत्रान्तरे निशम्य निजपरिजनाद् जिनागमनमानन्दनिर्भरमानसः समारुह्य जात्यतुरङ्गममनुगम्यमानो मनुजव्रजेनाजगा १० चरण० प्र०।२०र्भराखिल० प्र० । ३ ०शिखण्डि० प्र० । ४ ०भरुकच्छा० प्र० । मोटिभॐॐॐॐॐ ॥४८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy