SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ "ततः" सद्देशनायोग्यतायाः “पुनरयं" धर्मो “नियोगतः" अवश्यंतया "इति" एवं परम्परया "उभयतत्स्वभावतया" उभयस्य-भगवद्बहुमानप्रकृतधर्मलक्षणस्य तत्स्वभावतया-कार्यकारणस्वभावतया “तदाधिपत्यसिद्धेः” तस्य-10 भगवद्वहुमानस्य महानुभावतयाऽधिकृतधर्महेतुषु प्रधानभावसिद्धेः, “कारणे” सद्देशनायोग्यतायां "कार्यस्य" धर्मस्य । "उपचारादू" अध्यारोपाद्धर्म ददतीति धर्मदाः॥ __ मुण्डमालालुकाज्ञातं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन उपादेयं प्रणिधानं पोषजाणीयं साधुसेवया धर्मशरीरं रक्षणीयं प्रवचनमालिन्यम् , ऐतच्च विधिप्रवृत्तः सम्पादयति,अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रात् , ज्ञातव्य आत्मभावः, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसकम्पन्नयोगेषु लक्षयितव्या विस्रोतसिका प्रतिविधेयमनागतमस्याः भयशरणायुदाहरणेन, भवत्येवं सोप क्रम कर्मनाशः निरुपक्रमानुबन्धव्यवच्छित्तिरित्येवं धर्मं देशयन्तीति धर्मदेशकाः २१ ॥ ___ "मुण्डमालालुकाज्ञातमिति” मुण्डमाला-शिरःस्रा आलुका-मृन्मयी वार्घटिका ते एव ज्ञातं दृष्टान्तो, यथा “अनित्यताकृतबुद्धिानमाल्यो न शोचति । नित्यताकृतबुद्धिस्तु, भग्नभाण्डोऽपि शोचति ॥१॥" "सूत्रेत्यादि" सूत्राद्... १ निरवद्याहाराच्छादनादिभिः २ योग्यो योग्यगुरुसमीपे विधिप्रबजितो विधिप्रवृत्तः ३ सपत्नयोगेषु प्र० ४ विस्रोतउत्पत्तेः । पूर्वमेवागमोक्तियेया ।। 00000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy