________________
ललितवि० ॥ ४६ ॥
000
प्रभवत्वेऽपि " विचित्राः - स्वयोग्यतागुरुसंयोगादयो हेतवः प्रभवो - जन्मस्थानं यस्य तद्भावस्तत्त्वं तस्मिन्नपि धर्मस्य " महानुभावतया" अचिन्त्यशक्तितया “अस्यैव” भगवदनुग्रहस्य हेतुषु " प्राधान्यात्" ज्येष्ठतया, तदेव भावयति - "भवत्येव" न न भवति, “एतदासन्नस्य " धर्म्मासन्नस्य “भगवति” परमगुरौ “बहुमानो" भवनिर्वेदरूपः "ततो" भगवद्बहुमानात् “हिः" स्फुटं "सद्देशना योग्यता” सदेशनाया - वक्ष्यमाणरूपाया योग्यता - उचितत्वं
ततः पुनरयं नियोगतः इत्युभयतत्स्वभावतया तदाधिपत्यसिद्धेः, कारणे कार्योपचाराद्धम् दद तीति धर्मदाः २० ॥ तथा 'धम्मदेसयाणं' तत्र धर्मः - प्रस्तुत एव तं येथाभव्यमभिदधति, तद्यथा- प्रदीप्तगृहोदरैकल्पोऽयं भवो निवासः शरीरादिदुःखानां न युक्त इह विदुषः प्रमादः, यतः अतिदुर्लभेयं मानुष्यावस्था प्रधानं परलोकसाधनं परिणामकटवो विषयाः विप्रयोगान्तानि सत्सङ्गतानि पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य यतितव्यं, एतच्च सिद्धान्तवास| नासारो धर्ममेघो यदि परं विध्यापयति, अतः स्वीकर्त्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं
१ धर्म्मप्राप्तिसामीप्यवर्त्तिनो भव्यस्य २ योग्यतानुरूपं ३ तुल्यरूपः ४ शरीरा० प्र० । ५ यत्परलोकहितसंसाधनं तदेव प्रधानं न त्वन्यद्विनश्वरत्वात् ६ दुःखफलकारित्वात् ॥
Jain Education International
For Private & Personal Use Only
पं० युता.
॥ ४६ ॥
www.jainelibrary.org