SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ || १९ । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धे पयो|| गसम्पद एव हेतुसम्पदिति ५॥ सद्देशनायोग्यताविधाय्यनुग्रहसम्पादनादिना तात्त्विकधर्मदातृ-14 त्वादिप्रकारेण परमशास्तृत्वसम्पत्समन्विता भगवन्त इति न्यायतः प्रतिपादयन्नाह___ "प्रशमादिलक्षणाभेदात्" प्रशमसंवेगादिभ्यो लक्षणेभ्योऽभेदाद्-अव्यतिरेकाद्विज्ञप्तेः। "सद्देशनेत्यादि,” इदमत्र हृदयम् -सद्देशनाया योग्यताविधायिनोऽनुग्रहस्य-स्वविषयबहुमानलक्षणस्य प्राक् सम्पादनेन, आदिशब्दात् तदनु सद्देशनाया यत्तात्त्विकधर्मस्य दातृत्वम् , आदिशब्दात् परिपालनं तेन, परमया-भावरूपया शास्तृत्वसम्पदा-धर्मचक्रवर्तित्वरूपया समन्विताः-सङ्गता युक्ता भगवन्त इति यथाक्रमं सूत्रपञ्च केन प्रतिपादयन्नाहol 'धम्मदयाणमित्यादिसूत्रपञ्चकं इह धर्मः चारित्रधर्मः परिगृह्यते, स च श्रावकसाधुधर्मभेदेन द्विधा, श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषाशयरूपः आत्मपरिणामः, सा-18 धुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाभिव्यङ्गयः सकलसत्त्वहिताशयाऽमृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावस्वरूपत्वाद्धर्मस्य, नायं भगवदनुग्रहमन्तरेण, विचित्रहेतुप्रभवत्वेऽपि महानुभावतयाऽस्यैव प्राधान्यात् , भवत्येवैतदासन्नस्य भगवति बहुमानः, ततो हि सद्देशनायोग्यता, "नायमित्यादि" न-नैवायम्-उक्तरूपो धर्मो भगवदनुग्रहं सहकारिणमन्तरेण-विना, कुत इत्याह-"विचित्रहेतु 0000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy