________________
पं० युता.
@
@
@
@
@
@
@
@
@
@
@
@
ललितवि० छारूपस्येति, ततः किमित्याह-"नच" नैव "इयम्" उक्तरूपा क्षयोपशमवृद्धिः "अपुनर्बन्धक" 'पापं न तीव्रभावात्क
रोती'त्यादिलक्षणम् “अन्तरेण" विनाऽन्यस्य भवबहुमानित्वात् , ततः किमित्याह-"इति" एतदू "भावनीय" यदुत पचकमप्येतदपुनर्बन्धकस्येति हेतुं स्वरूपं फलं चापेक्ष्य विचारणीयं, परमतसंवादेनाप्याह "इष्यते चैतदू" अभयादिकम् , | "अपरैरपि" जैनव्यतिरिक्तैमुमुक्षुभिः, कथमित्याह-“यथोक्त" यस्मादुक्तं
भगवद्गोपेन्द्रेण-"निवृत्ताधिकारायां प्रकृती धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्त्वधर्मलियोनयः, नानिवृत्ताधिकारायां, भवन्तीनामपि तद्रूपताऽयोगादिति विज्ञप्तिश्च बोधिः,
___ "भगवद्गोपेन्द्रेण" भगवता परिव्राजकेन गोपेन्द्रनाम्ना, उक्तमेव दर्शयति-"निवृत्ताधिकारायां" व्यावृत्तपुरुषाभिभव लक्षणस्वव्यापारायां "प्रकृती" सत्त्वरजस्तमोलक्षणायां ज्ञानावरणादिकमणीत्यर्थः, धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरित्येता यथाक्रममभयाद्यपरनामानस्तत्त्वधर्मयोनयः-पारमार्थिककुशलोत्पत्तिस्थानानि भवन्तीति, व्यवच्छेद्यमाह"नानिवृत्ताधिकारायां" प्रकृताविति गम्यते, कुत इत्याह-"भवन्तीनामपि" धृत्यादिधर्मयोनीनां कुतोऽपि हेतो, |प्रकृतेरनिवृत्ताधिकारत्वेन “तद्रूपताऽयोगात्" तात्त्विकधृत्यादिस्वभावाभावाद् "इतिः" परोक्तसमाप्त्यर्थः, एवमपि कि |मित्याह-"विज्ञप्तिश्च" पञ्चमी धर्मयोनिः "बोधिः" जिनोक्तधर्मप्राप्तिः, कुत इत्याहप्रशमादिलक्षणाभेदात. एतत्प्राप्तिश्च यथोक्तप्रपञ्चतो भगवद्भय एवेति बोधिं ददतीति बोधिदाः। १ अतिव्यामोहकारिक्लिष्टकर्मरसे विनष्टे सति ॥
@@
@
@
॥४५॥
@
@
@@
990@
@
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org