SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८ कुत एतदित्याह - "अनीदृशस्य " इतरेतराफलस्य पश्ञ्चकस्य “तत्त्वायोगात् " तत्त्वस्य अभयादिभावस्य - अयोगाद्-अघट| नात् । एतदेव भावयति - "नहि" नैव "अचक्षुष्फलं" नास्ति चक्षुः फलमस्य तत्तथाऽभयं “ चक्षुः " पूर्वोक्तरूपम् "अमार्गफलं" मार्गलक्षणफलरहितमिति, आदिशब्दान्माग्गोऽशरणफलः, शरणं चाबोधिफलमिति । यदि नामैषं ततः किमि (5) ० त्याह - "एवं च" इतरेतरफलतायां च सत्याम् " उत्कृष्टस्थितेः” मिथ्यात्वादिगताया "आ" इति प्रारभ्य " ग्रन्थिप्राप्तिं” समयसिद्धग्रन्थिस्थानं यावद् “एते" अभयादयो “भवन्तोऽपि " जायमाना अपि "असकृद्” अनेकशो “न” नैव "तद्रूपतां" भावरूपाभयादिरूपताम् "आसादयन्ति” लभन्ते, कुत इत्याह- “विवक्षितफलयोग्यता वैकल्यात्" विवक्षितं फलमभयस्य चक्षुः चक्षुषो मार्ग इत्यादिरूपं तज्जननस्वभावाभावात्, योग्यतामेवाह योग्यता चाफलप्राप्तेस्तथा क्षयोपशमवृद्धिः लोकोत्तरभावामृतास्वादरूपा वैमुख्यकारिणी विषय| विषाभिलाषस्य, न चेयमपुनर्बन्धकमन्तरेणेति भावनीयं, इष्यते चैतदपरैरपि मुमुक्षुभिः, यथोक्तं “ योग्यता च” प्रागुपन्यस्ता अभयादीनाम् “आफलप्राप्तेः " चक्षुरादिफलप्राप्तिं यावत् " तथा " फलानुकूला “क्षयोपशमवृद्धिः" स्वावारककर्मक्षयविशेषवृद्धिः “लोकोत्तरभावामृतास्वादरूपा" लोकोत्तरभावः विहितौदार्य दाक्षिण्यादयः त ऍवामृतं सुधा तदास्वादरूपा, अत एव “वैमुख्यकारिणी" विमुखताहेतुः “विषयविषाभिलाषस्य" विषाकारविषयवा१० भयं धृतिः प्र० । २ सावधानतया कर्त्तव्यताविबोधता च । ३ आदिना पापजुगुप्सानिर्मलबोधादयः । ४ इत्येवामृतं प्र० । 96009009 Jain Education International 000000000000099609950 For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy