SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ | विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, “उदकपयोऽमृतकल्पज्ञानाजनकत्वात्,” उदकं जलं पयः-क्षीरं अमृतं - सुधा तत्कल्पानि विषयतृष्णापहारित्वेन श्रुत८) चिन्ताभावनारूपाणि ज्ञानानि तदजनकत्वात्, तत्त्वगोचरा एव हि शुश्रूषादयो मृदुमध्याधिमात्रावस्था एवंरूपज्ञानजनका इति, स एव इतरान वजानन्नाह – “लोक सिद्धास्तु” सामान्येन लोकप्रतिष्ठिताः “तुः” पुनः शुश्रूषादयः “सुप्तनृपाख्यानकगोचरा इव" यथा सुप्तस्य - शय्यागतस्य नृपस्य - राज्ञो निद्रालाभार्थमाख्यानविषयाः शुश्रूषादयोऽन्यार्थी एव ॐ भवन्ति, न त्वाख्यानपरिज्ञानार्थाः “इति” अवधूताचार्योक्तिसमाप्त्यर्थः, सर्वतात्पर्यमाह - “विषयतृडपहार्येव हि ज्ञानं" विषयाभिलाषनिवर्त्तकमेव हि:- यस्मात्कारणात् ज्ञानं तत्त्वबोधः कीदृशमित्याह – “विशिष्टकर्मक्षयोपशमजं" विशि ष्टात्- मिथ्यात्वमोहविषयात् क्षयोपशमाज्जातम्, अनभिमतप्रतिषेधमाह – “न” नैवान्यद् - विषयतृष्णानपहारि, ज्ञानमिति गम्यते, कुत इत्याह ०००००००० अभक्ष्यास्पर्शनीय न्यायेनाज्ञानत्वात्, न चेदं यथोदितशरणाभावे, तच्च पूर्ववद्भगवद्भ्य इति | शरणं ददतीति शरणदाः १८ ॥ तथा 'बोहिदयाणं,' इह बोधिः - जिनप्रणीतधर्मप्राप्तिः, इयं पुनर्यथा - | प्रवृत्तापूर्वानिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदा Jain Education International For Private & Personal Use Only ०००००००950399009936 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy