SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८०८ 00004 19095904 न्देहविपर्ययव्युदासेन ज्ञानं विज्ञानं, विज्ञातमर्थमवलम्ब्यान्येषु व्याघ्या तथाविधवितर्कणमूहः, उक्तियुक्तिभ्यां विरुद्धा| दर्थात्प्रत्यपायसम्भावनया व्यावर्त्तनमपोहः, अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः, विज्ञानोहापोहानुगम विशुद्धमित्थमेवेतिनिश्चयस्तत्त्वाभिनिवेशः, पश्चात्पदाष्टकस्य इन्द्रः समासः, “प्रज्ञागुणाः " बुद्धेरुपकारिण इत्यर्थः किंविशिष्टा | इत्याह- " प्रतिगुणम्” एकैकं शुश्रूषादिकं गुणमपेक्ष्योत्तरोत्तरे “अनन्तपापपरमाण्वपगमेन” अनन्तानाम् — अतिबहूनां | पापपरमाणूनां - ज्ञानावरणादिक्लिष्टकर्म्माशलक्षणानामपगमेन - प्रलयेनैते - तत्त्वगोचराः शुश्रूषादयः, “इति” एतत् "समयवृद्धाः" बहुश्रुता ब्रुवते, कुत एतदित्याह - “तदन्येभ्यः” उक्तविलक्षण हेतु प्रभवेभ्यः " तत्त्वज्ञानायोगाद्” भवनैर्गुण्यादिपरमार्थापरिज्ञानाद्, एतदपि कुत इत्याह|" तदाभासतया” तत्त्वगोचर शुश्रूषादिसदृशतया " एतेषां" प्रतिगुणमनन्तपापपरमाण्वपगममन्तरेण जातानां “भिन्नजा|तीयत्वाद्” अन्यजातिस्वभावत्वात् नन्वाकारसमतायामपि कुत एतदित्याह - " बाह्याकृति साम्येऽपि तत्त्वगोचराणामित| रेषां च शुश्रूषादीनां "फलभेदोपपत्तेः” फलस्य-भवानुरागस्य तद्विरागस्य च यो भेदः - आत्यन्तिकं वैलक्षण्यं स एवोपपॐ त्तिः - युक्तिस्तस्याः, कथं नाम एकस्वभावेषु द्वयेष्वपि शुश्रूषादिषु बहिराकारसमतायामित्थं फलभेदो युज्यत इति भावः, Jain Education International तदन्येभ्यस्तत्त्वज्ञानायोगात्, तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकृतिसाम्येऽपि फलभेदोपपत्तेः सम्भवन्ति तु वस्त्वन्तरोपायतया, For Private & Personal Use Only 900909999990095033000 w.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy