________________
८०८
00004
19095904
न्देहविपर्ययव्युदासेन ज्ञानं विज्ञानं, विज्ञातमर्थमवलम्ब्यान्येषु व्याघ्या तथाविधवितर्कणमूहः, उक्तियुक्तिभ्यां विरुद्धा| दर्थात्प्रत्यपायसम्भावनया व्यावर्त्तनमपोहः, अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः, विज्ञानोहापोहानुगम विशुद्धमित्थमेवेतिनिश्चयस्तत्त्वाभिनिवेशः, पश्चात्पदाष्टकस्य इन्द्रः समासः, “प्रज्ञागुणाः " बुद्धेरुपकारिण इत्यर्थः किंविशिष्टा | इत्याह- " प्रतिगुणम्” एकैकं शुश्रूषादिकं गुणमपेक्ष्योत्तरोत्तरे “अनन्तपापपरमाण्वपगमेन” अनन्तानाम् — अतिबहूनां | पापपरमाणूनां - ज्ञानावरणादिक्लिष्टकर्म्माशलक्षणानामपगमेन - प्रलयेनैते - तत्त्वगोचराः शुश्रूषादयः, “इति” एतत् "समयवृद्धाः" बहुश्रुता ब्रुवते, कुत एतदित्याह -
“तदन्येभ्यः” उक्तविलक्षण हेतु प्रभवेभ्यः " तत्त्वज्ञानायोगाद्” भवनैर्गुण्यादिपरमार्थापरिज्ञानाद्, एतदपि कुत इत्याह|" तदाभासतया” तत्त्वगोचर शुश्रूषादिसदृशतया " एतेषां" प्रतिगुणमनन्तपापपरमाण्वपगममन्तरेण जातानां “भिन्नजा|तीयत्वाद्” अन्यजातिस्वभावत्वात् नन्वाकारसमतायामपि कुत एतदित्याह - " बाह्याकृति साम्येऽपि तत्त्वगोचराणामित| रेषां च शुश्रूषादीनां "फलभेदोपपत्तेः” फलस्य-भवानुरागस्य तद्विरागस्य च यो भेदः - आत्यन्तिकं वैलक्षण्यं स एवोपपॐ त्तिः - युक्तिस्तस्याः, कथं नाम एकस्वभावेषु द्वयेष्वपि शुश्रूषादिषु बहिराकारसमतायामित्थं फलभेदो युज्यत इति भावः,
Jain Education International
तदन्येभ्यस्तत्त्वज्ञानायोगात्, तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकृतिसाम्येऽपि फलभेदोपपत्तेः सम्भवन्ति तु वस्त्वन्तरोपायतया,
For Private & Personal Use Only
900909999990095033000
w.jainelibrary.org