________________
9०००
960560006:
| भाव इत्याह-- "नच " नैव " असौ" प्रकृतजीवः " तथा " प्रागिव " अतिसङ्किष्टः ' अतीव सानुबन्धक्लेशवान् " तत्प्राप्तौ ” मार्गप्राप्तौ "इति" एतत् "प्रवचनपरमगुह्यं” शासनहृदयम् अत्र हेतुःन खलु भिन्नग्रन्थेर्भूयस्तद्वन्ध इति तन्त्रयुक्त्युपपत्तेः एवमन्यनिवृत्तिगमनेनास्य भेदः, सिद्धं चैतस्प्रवृत्त्यादिशब्दवाच्यतया योगाचार्याणां प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः
“न खलु” नैव "भिन्नग्रन्थेः " सम्यक्त्ववतो “भूयः” पुनः “तद्वन्धो" ग्रन्थिबन्धः " इति" एवं "तन्त्रयुक्त्युपपत्तेः” पुनस्तद्वन्धेन न व्यवलीयते कदाचिदित्यादिशास्त्रीय युक्तियोगात्, ततः किं सिद्धमित्याह -- " एवं " सानुबन्धतया "अनिवृत्तिगमनेन” अनिवृत्तिकरणप्राध्या "अस्य" मार्गरूपक्षयोपशमस्य “भेदो” विशेषः, शेषक्षयोपशमेभ्यः परतन्त्रेणापीदं साधयन्नाह - "सिद्धं च” प्रतीतं च "एतत् " सानुबन्धक्षयोपशमवतो ग्रन्थिभेदादिलक्षणं वस्तु “प्रवृत्त्यादिशब्दवाच्यतया” नामान्तरेणेत्यर्थः, "योगाचार्याणां” पतञ्जलिप्रभृतीनां कथमित्याह -- "प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः ॐ | कर्मयोगः " प्रवृत्तिः -- चरमयथाप्रवृत्तिकरणशुद्धिलक्षणा, प्रकृतो मार्ग इत्यर्थः, पराक्रमेण - वीर्यविशेषवृद्ध्या अपूर्वकरणे||नेत्यर्थी, जयो-विबन्धकाभिभवो विघ्नजयोऽनिवृत्तिकरणमित्यर्थः, आनन्दः - सम्यग्दर्शनला भरूपः 'तेमोग्रन्थिभेदादानन्दः ' इति वक्ष्यमाणवचनात् ऋतम्भरः सम्यग्दर्शनपूर्वको देवतापूजनादिर्व्यापारः, ऋतस्य - सत्यस्य भरणात्, ततश्च ते प्रवृत्यादयो भेदा यस्य स तथा
१०मनिवृत्ति० पञ्जिका २ ततो प०
Jain Education International
500000000095099900900
For Private & Personal Use Only
www.jainelibrary.org