________________
ललितवि०
॥४१॥
मरूपमार्गे"आन्तरे" अन्तरङ्गहेतौ बहिरङ्गगुर्वादिसहकारिसद्भावेऽपि यथोदितगुणस्थानावाप्तिः"सम्यग्दर्शनादिगुणलाभः,60 युता. कुत इत्याह-"मार्गविषमतया” क्षयोपशमविसंस्थुलतया "चेतःस्खलनेन" मनोव्याघातेन "प्रतिबन्धोपपत्तेः" यथोदितगुणस्थानावाप्तेर्विष्कम्भसंभवात् , कुतो ? यतः "सानुबन्धक्षयोपशमात्" उत्तरोत्तरानुबन्धप्रभूतक्षयोपशमात् "गुणस्थानावाप्तिः” पूर्वोक्ता जायत इति, व्यतिरेकमाह-"अन्यथा” सानुबन्धक्षयोपशमाभावे “तदयोगात्" यथोदितगुणस्थानावाप्तेरभावात् , कुत इत्याह| क्लिष्टदुःखस्य तत्र तत्त्वतो बाधकत्वात् , सानुबन्धं क्लिष्टमेतदिति तन्त्रगर्भः, तद्बाधितस्यास्य तथाग-181 मनाभावात् , भूयस्तदनुभवोपपत्तेः, न चासौ तथाऽतिसङ्क्लिष्टस्तत्प्राप्तावितिप्रवचनपरमगुह्यं,
क्लिष्टं दुःखयतीति दुःख-कर्म ततः क्लिष्टकर्मणः "तत्र" निरनुबन्धक्षयोपशमे "तत्त्वतः" अन्तरङ्गवृत्त्या "वाधकत्वात्" प्रकृतगुणस्थानस्येति, क्लिष्टस्वरूपमेव व्याचष्टे-"सानुबन्धं" परम्परानुबन्धवत् , क्लिष्टं-केशकारि एतत्-कम्म, न पुनस्तत्कालमेव परमक्लेशकार्यपि स्कन्दकाचार्यशिष्यकर्मवन्महावीरकर्मवद्वा "इति तन्त्रगर्भः" एष प्रवचनपरमार्थः, कुत एतदित्याह-"तद्बाधितस्य” क्लिष्टकाभिभूतस्य "अस्य” चेतसः "तथागमनाभावात्” अवक्रतया विशिष्टगुणस्थानगमनाभावात् , कुत इत्याह-"पुनस्तदनुभवोपपत्तेः” तस्य-क्लिष्टदुःखस्यानुभव एवोपपत्तिस्तस्याः, अवश्यमनुभवनीये
॥४१॥ हि तत्र कथमवर्क चित्तगमनं स्यादितिभावः । ननु सम्यग्दर्शनावाप्तावपि कस्यचिन्मिथ्यात्वगमनात् कथमत्र क्लिष्टदुःखा
Jan Education Intemanong
For Private
Personel Use Only
www.jainelorary.org