SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जीवांशैर्मिता भृशम् ॥३७॥ यद्वा-तत्तव्यक्षेत्रकालाध्यवसायव्यपेक्षया। संक्रमादितया वा यः, परिणामः स एव सः ॥ ३८॥ उपशमोऽत्रानुदयावस्था भस्मावृताग्निवत् । स मोहनीय एव स्यान्न जात्वन्येषु कर्मसु ॥ ३९ ॥ सर्वोपशम एवायं, विज्ञेयो न तु देशतः। यद्देशोपशमस्तु स्यादन्येषामपि कर्मणाम् ॥ ४०॥ चतुर्णा घातिनामेव, क्षयोपशम इष्यते । कर्मखष्टास्वपीह स्युः, परिणामक्षयो दयाः॥४१॥ ऋतिर्यग्देवनरकरूपे गतिचतुष्टये । पश्चापि भावा ज्ञेया यजीवत्वं पारिणामिकम् ॥४२॥ सम्यक्त्वमौपशमिकं, क्षायिक चेन्द्रियाणि च । क्षायोपशमिकान्यासु, गतिरोदयिकी भवेत् ॥४३॥ तौ दावेव सिद्धगतो, क्षायिकपारिणामिकौ । ज्ञानादि क्षायिकं तत्र, जीवत्वं पारिणामिकं ॥४४॥ एवं च-गत्यादिमार्गणाद्वारेष्वेवं स्युनियतात्रयः। क्षायिकौपशमिको तु, भजनीयौ यथायथम् ॥४५॥ यत्क्षायिकौपशमिकभावयोः सन्ति संभवे । वाच्याः पञ्चान्यथा मिश्रौदयिकपारिणामिकाः॥४६॥ । एवं कर्मखमी भावा, यथाऽऽम्नायं निरूपिताः। अथो गुणस्थानकेषु, कुर्मो भावप्ररूपणाम् ॥४७॥ सम्यग्दष्ट्यादिषु गुणस्थानकेषु चतुर्विह । भावास्त्रयोऽथ चत्वारो, लभ्यन्ते किल तद्यथा ॥४८॥ त्रयःक्षायोपशमिकसम्यग्दृष्टेर्भवन्ति यत् । गतिरोदयिकी तेषां, जीवत्वं पारिणामिकम् ॥ ४९॥ क्षायोपशमिकं सम्यग्दर्शनं चेन्द्रियाणि च । चत्वारश्चौपशमिकक्षायिकदर्शनस्पृशः॥५०॥ सम्यक्त्वमापशमिकं, तेषां च क्षायिकं भवेत् । मिश्राणि खानि जीवत्वं, गतिश्चात्रापि पूर्ववत् ॥५१॥ अनिवृत्तिबादराख्यसुसूक्ष्मसंपराययोः। चत्वारः पञ्च Jain Educat i onal For Private & Personel Use Only W ww.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy