SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ | कर्मगतिगुणस्थानेषु भावाः लोकप्रकाशेवा भावास्त्रयस्तत्र च पूर्ववत् ॥५२॥ सम्यक्त्वमौपशमिक, श्रेणावुपशमस्पृशि। क्षायिक क्षपकश्रेण्यां, द्विधाभावलोके प्येवं चतुष्टये ॥५३॥ पञ्चमस्त्वौपशमिकचारित्रान्वय इष्यते । शास्त्रान्तरे तत्कथितमनयोर्गुणयोरपि ॥५४॥ ३६ सर्गे तथोक्तं कर्मग्रन्थवृत्ती-“एषामेव चतुर्णा मध्येऽनिवृत्तिबादरसूक्ष्मसंपरायगुणस्थानकद्वयवर्तिनोऽप्यौपशमि कचारित्रस्य शास्त्रान्तरे प्रतिपादनादौपशमिकचारित्रप्रक्षेपे पञ्चम" इति। तथोपशान्तमोहेऽपि, चत्वारः पञ्च वा ॥५७५॥ स्मृताः। पञ्च क्षायिकसम्यक्त्वभृतोऽन्यस्य चतुष्टयम् ॥५५॥ चत्वारोऽपूर्वकरणे, क्षीणमोहे च ते स्मृताः। त्रयस्तु पूर्ववन्मिौयिकपारिणामिकाः ॥५६॥ सम्यक्त्वं क्षायिक क्षीणमोहे भावस्तुरीयकः। क्षायिक चौपशमिकमपूर्वकरणे पुनः॥५७॥ मिथ्यादृष्टौ तथा साखादने मिश्रगुणेऽपि च । सयोगिकेवल्याख्ये चायोगिकेवलिसंज्ञके ॥५८॥ पञ्चवमीषु प्रत्येक, त्रयो भावा उदाहृताः । तत्राद्यत्रितये मिश्रौदयिकपारिणामिकाः ॥ ५९॥ अन्त्यद्वये त्वौदयिकक्षायिकपारिणामिकाः। ज्ञानादि क्षायिकं शेषी, गतिजीवत्वगोचरौ ॥ ६॥ भावाः खाम्यादिभेदेन, विशिष्यैवं निरूपिताः। सामान्यतः संभविनो, भावान् वच्मि गुणेष्वथ ॥ ६१॥ त्रयस्त्रिषु गुणस्थानेष्वायेषु ते च पूर्ववत् । तुर्यादिष्वष्टसु पुनः, प्रत्येकं पञ्च कीर्तिताः ॥६२॥ तथाहि-सम्यक्त्वमौपशमिकं, चतुर्थादिगुणाष्टके । क्षायिकं च चतुर्थादिष्वकादशसु संभवेत् ॥ ६३॥ मिश्रं सम्यक्त्वेन्द्रियादि, चतुर्थादिचतुष्टये । खं चारित्रे चाष्टमादौ, जय एकादशे तु खम् ॥३४॥ गतिः सर्वत्रौदयिकी, जीवत्वं पारिणामिकम् । एवं भावित एतेषु, तावत्पञ्चकसंभवः ॥६५॥ क्षीणमोहे च चत्वारस्त औपशमिकं विना । ॥५७५॥ JainEdity For Private Personal Use Only
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy