SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे भावलोके ३६ सर्गे ॥५७४ ॥ Jain Education) जनितो यथा । औदारिकादिस्कन्धानां तत्तद्देहतयोदयः ॥ २४ ॥ ये जीवग्रहणानर्हाः, स्कन्धाः सूक्ष्माश्च येऽणवः । तेषां नौदयिको भावः, केवलं पारिणामिकः ॥ २५ ॥ उदय एवौदयिक, इति व्युत्पत्त्यपेक्षया । कर्मस्कन्धेष्वौदयिको, भावो भवति तद्यथा ॥ २६ ॥ क्रोधादीनां य उदयो, जीवानां जायते स वै । कर्मस्कन्धोदयो ज्ञेयः कर्मस्कन्धात्मका हि ते ॥ २७ ॥ कर्मस्कन्धाश्रिता एवं नन्वोपशमिकादयः । संभवन्तः कथं भावा, | अजीवेषु न कीर्त्तिताः १ ॥ २८ ॥ सत्यं ते संभवन्त्येव, तेषां किंच निरूपणे । अविवक्षैव हेतुत्वं, विभर्त्ति प्राक्तनादृता ॥ २९ ॥ भवत्वौदयिकोऽप्येवं, संभवन्नविवक्षितः । समाने संभवे पङ्क्तिभेदोऽयं कथमर्हति ॥ ३० ॥ सत्यमेष पङ्क्तिभेदो, विज्ञैः कैश्चिन्निराकृतः । अजीवेषूदितो यत्तैः केवलं पारिणामिकः ॥ ३१ ॥ तथोक्तं कर्मग्रन्थवृत्तौ - " नन्वेवं कर्मस्कन्धाश्रिता औपशमिकादयो भावा अजीवानां संभवन्त्यतस्तेषामपि भणनं प्रामोति, सत्यं तेषामविवक्षितत्वाद्, अत एव कैश्चिदजीवानां पारिणामिक एव भावोऽभ्युपगम्यत" इति । 1 जीवाजीवाश्रिता भावा, इति सम्यग्निरूपिताः । अधिकृत्याथ कर्माणि, कुर्मो भावप्ररूपणम् ॥ ३२ ॥ क्षायिकचौपशमिको, मिश्रश्च पारिणामिकः । तथौदयिक इत्येते, पञ्चापि मोहनीयके ॥ ३३ ॥ ज्ञानदर्शनावरणान्त| रायेषु च कर्मसु । भावा भवन्ति चत्वार, एवोपशमिकं विना ॥ ३४ ॥ तत्रापि केवलज्ञानदर्शनावरणाख्ययोः । विपाकोदय विष्कम्भाभावान्मिश्रो न संभवेत् ॥ ३५ ॥ वेदनीयनामगोत्रायुषां तु त्रय एव ते । विना मिश्रौपशमिकौ, पारिणामक्षयोदयाः ॥ ३६॥ तत्र च क्षय आत्यन्तिकोच्छेदः, खविपाकोपपादकः । उदयः परिणामस्तु, For Private & Personal Use Only अजीवे कर्म सु भावाः २० २५ ॥ ५७४ ॥ २८ ainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy