SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तद्वत्तौ ॥ एवं च कुलकरानाश्रित्य दुष्षमाकालानुभावाद्वाचनाभेदजनितेषु उत्सर्पिणीकालभाविकुलकराणां भिन्नभिन्ननामताव्यस्तनामतान्यूनाधिकनामताभिन्नारकभाविताभिधायकेषु शास्त्रवाक्येषु सत्सु तत्त्वं सर्वविवैद्यमिति ज्ञेयं । ___ अथ प्रकृतं-क्रमेणात्यन्तसारस्यायच्छिन्ने पावके सति । अग्निपकान्नाशनादिस्थितिर्विच्छेत्स्यतेऽखिला &॥२०॥ क्रीडिष्यन्ति यथेच्छ ते, प्रादुर्भूतैरनुक्रमात् । कल्पद्रुमैर्दशविधैः, पूर्यमाणमनोरथाः॥२१॥ पञ्चचाप| शतोत्तुङ्गाः, स्युर्नित्यमशनार्थिनः। उत्कर्षतः पूर्वकोट्यायुषोऽत्र प्रथमं जनाः॥ २२ ॥ एकपल्योपमोत्कृष्टायुषः४ क्रोशोचभूघनाः । चतुर्थभक्तभोक्तारः, पर्यन्ते ते च भाविनः ॥२३॥ प्रवर्द्धमानपर्याये, पूर्णे तुर्येऽरके क्रमात् । सुषमानाम सुखकृत्, पञ्चमारः प्रवेक्ष्यति ॥२४॥ एकक्रोशोच्छ्रिता एकपल्योपमपरायुषः। तत्रैकाहान्तराहारा, भाविनः प्रथमं जनाः ॥२५॥ द्विक्रोशोच्चाश्च पर्यन्ते, द्विपल्यपरमायुषः । षष्ठभक्तकृताहारा, भविष्यन्ति । नरोत्तमाः॥२६॥ अरके पञ्चमे पूर्णेऽथैवं पर्यायवृद्धितः । षष्ठोऽरकोऽथ सुषमसुषमाख्यः प्रवक्ष्यति ॥ २७ ॥ द्विक्रोशतुङ्गाश्चात्रादौ, द्विपल्योत्कृष्टजीविताः। द्विदिनान्तरभोक्तारो, भाविनो भुवि युग्मिनः ॥ २८ ॥ अन्ते क्रोशत्रयोत्तुङ्गास्त्रिपल्यपरमायुषः । भवितारो युगलिनस्त्रिदिनान्तरभोजिनः ॥ २९॥ उत्कृष्टं ह्यरकप्रान्ते, १ उत्सर्पिण्यामाधारकेऽराजकता स्पष्टैव, द्वितीयारकान्त्यभागे राज्यव्यवस्थाऽत आवश्यकी, युक्तास्तत्र कुलकराः, तुर्यारकादिभागे तु|| तत्तद्दण्डविसर्जकत्वेन ते, उक्तानुक्ती तु विवक्षाधीने । १० Jain Educ a tional For Private Personal use only | www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy