SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ॥५५८॥ नीत्यौ, स्यातामन्त्यविवर्जिते । तृतीयानां च पश्चानां, हाकार एव केवलम् ॥ १७ ॥ एवं कुलकरेष्वेषु, उत्सर्पिण्यां व्यतिक्रान्तेषु कालतः। जनाः सर्वेऽहमिन्द्रत्वं, प्रपत्स्यन्ते पराऽवशाः॥१८॥ स्वत एव प्रवर्त्तन्ते, ते न्यायेष्वेव कुलकर मानवाः।न ते शासितुमर्हन्ति, तेषां शास्ता न कश्चन ॥ १९॥ एवं चात्रावसर्पिणीप्रातिलोम्यौचित्येनोत्स-IS वक्तव्यता र्पिणीषु चतुर्थारकस्यादौ चतुर्विशतितमजिननिर्वाणानन्तरं पञ्चदश कुलकरा उक्ताः, परमेतन्निणेतुं न शक्यते यदुत्सर्पिण्यां द्वितीयारकपर्यन्ते कुलकरा भवन्ति उत चतुरकस्यादौ भवन्ति, यत एष निर्णयो ह्यनन्तरभविष्यदुत्सर्पिण्यनुसारेण कर्तुं शक्यते, भविष्यदुत्सर्पिण्यां च कुलकरानाश्रित्य शास्त्रे भूयान् विसंवादो दृश्यते, तथाहि-कालसप्ततिकादीपालिकाकल्पादिषु च द्वितीयारकपर्यन्ते विमलवाहनादयः सप्त कुलकरा उक्ताः, स्थानाले तु सप्तमे स्थानके सप्त कुलकरा उक्ताः, तत्र सुमतिनामापि नोक्तं, दशमे तु सीमङ्करादयो 8 दशोक्तास्तत्र सुमतिनामोक्तं, परं प्रान्ते न, समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः, स्थानांगनवमस्थानके च सुमतिपुत्रत्वेन पद्मनाभोत्पत्तिरुक्ता, तथा जम्बूद्वीपप्रज्ञप्तिसूत्रे च द्वितीयारके कुलकरा मूलत एव नोक्ताः, चतुरके तु एकस्मिन् पक्षे मूलत उक्ताः, पक्षान्तरे च पञ्चदशोक्तास्तथाहि"जा चेव ओसप्पिणीए पच्छिमे तिभागे वत्तवया सा भाणियबा कुलगरवजा उसभसामिवज्जा, अण्णे || ॥५५८॥ पदंति-तीसे णं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुप्पजिस्संति, तंजहा-सुमइ जाव उसभे, सेसं तं चेव, दंडनीईओ पडिलोमाओणेयवाओ" अत्र च ऋषभनामा कुलकरो, न तु ऋषभखामिनामा तीर्थकृदिति Jnin Educat onal For Private Personal use only S w .jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy