SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रवाहस्य, खकुण्डनिर्गमावधि ॥ १७॥ ततः परं त्वेष यथा, शुभकालानुभावतः । नद्यन्तरसंहस्रानुषण वर्द्धते क्रमात् ॥ १८॥ तथा नद्यन्तरासगाद्भरितापात्तथा क्षितेः । शुष्यत्यपि प्रवाहोऽयं, दुष्टकालानुभावतः ॥१९॥ पद्मादिदनिर्गच्छत्प्रवाहापेक्षयैव च । स्याच्छाश्वतत्वमेतासा, ततो युक्तं यथोदितम् ॥ २०॥ चतुभिः कलापकं । निवसन्ति मनुष्यास्ते, प्रागुक्तेषु बिलेष्वथ । भीष्मेषु घोरध्वान्तेषु, स्तेनाः कारागृहेष्विव ॥२१॥ कृताकार्या इव बहिस्ते हि नागन्तुमीशते । गोपतेरुत्मतापस्य, करसंतापभीरवः ॥ २२॥ निशायामपि नेशास्ते, निर्गन्तुं बिलतो बहिः। असह्यं ददतो जाड्यं, विधोीता निशाचरात् ॥ २३॥ रजनी गतचन्द्रापि, निशाचरवधूरिव । भवेत्प्राणोपघाताय, तेषां शीतार्त्तिवेपिनाम् ॥ २४॥ ततः प्रातः प्रदोषे च, नात्युषणे नातिशीतले । निर्गच्छन्ति बिलेभ्यस्ते, शृगाला इव भीलवः॥ २५॥ उपेत्य गङ्गासिन्धुभ्यो, गृहीत्वा मत्स्यकच्छपान् । स्थले क्षिपन्ति पाकाथ, सद्यस्का दुर्जरा हि ते ॥२६॥ दिवा तरणितापेन, रात्री शैत्येन भूयसा ।। तेषामाहारयोग्याः स्युः, कथिता नीरसाश्च ते ॥ २७ ॥ मन्दाल्पजठराग्नीनामपक्काः सरसाश्च ते । न जीर्यन्तेऽग्न्यभावाच, तेषां पाकोऽप्यसम्भवी ॥ २८ ॥ आदाय पूर्वनिक्षिप्तान , प्सान्ति ते मत्स्यकच्छपान् । भविष्यभोजनार्थ च, निक्षिपन्ति पुनर्नवान् ॥ २९ ॥ जीविका स्यात्सदाऽप्येषां, यदेवं पापसाधनम् । स्युस्तिर्यञ्चो नारकाश्च, प्रायस्तत्तेऽपि पापिनः॥३०॥ सूत्रे च प्रायःशब्दोक्तेः, क्षुद्रान्नकृतजीविकः। अक्लिष्टाध्यवसायश्च, १ हिमवतो भरतनैकट्यात् तत्र नैव सिन्धुगंगाप्रवाहहान्यादि इति नैव कचिदाप्तोक्तं । १ ३ Jain Educat i onal For Private & Personel Use Only How.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy