SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३४ सर्गे ॥५४९ ॥ Jain Educatio नरकेषु ते । तिर्यग्भ्यो नरकेभ्यश्च ते प्रायेण स्युरागताः ॥ ४ ॥ चतुष्पदा मृगव्याघ्रसिंहाश्वोतुवृकादयः । पक्षिणो ढङ्ककङ्कायाः, सरटायाः सरीसृपाः ॥ ५ ॥ एतेऽपि सर्वे नरकतिर्यग्दुर्गतिगामिनः । स्युर्मासभक्षिणः क्रूराध्यवसायाश्च निर्दयाः ॥ ६ ॥ षष्ठस्य चारकस्यादौ नरा हस्तद्वयोच्छ्रिताः । हीयमानाः क्रमादन्ते, चैकहस्तोच्छ्रिता मताः ॥ ७ ॥ उत्कृष्टमायुरेतेषामादौ वर्षाणि विंशतिः । अन्ते षोडश वर्षाणि, हीयमानं शनैः। शनैः ॥ ८ ॥ तथोक्तं- 'सोलसवीसहवासपरमाउआ समणाउसो' इति श्रीजम्बू०प्र० सूत्रे, एतद्वृत्तावपि — इह कदाचित् षोडश वर्षाणि कदाचिच्च विंशतिर्वर्षाणि परममायुर्येषां ते इति, वीरचरित्रे तु षोडश स्त्रीणां वर्षाणि, विंशतिः पुंसां परमायुरिति ॥ वैताढ्यपर्वतादवग्गङ्गायास्तटयोर्द्वयोः । बिलानि स्युर्नव नव, तावन्ति सिन्धुकूलयोः ॥ ९ ॥ षट्त्रिंशति बिलेष्वेवं, दक्षिणार्द्धनिवासिनः । वसन्ति मनुजाः पक्षिपशुगोधोरगादयः ॥ १० ॥ वैताढ्यात्परतः सिन्धुगङ्गयोः कूलयोर्द्वयोः । षट्त्रिंशति विलेष्वेते, वसन्त्युत्तरपार्श्वगाः ॥ ११ ॥ द्वासप्ततिबिलान्येवं, स्युः क्षेत्रेषु दशखपि । तेषु तिष्ठन्ति बीजानि, सर्वेषामपि देहिनाम् ॥ १२ ॥ रथचक्राक्षमात्रोण्डो, रथाध्वमात्र विस्तृतः । तदा जलप्रवाहः स्यात्, सरितोः सिन्धुगङ्गयोः ॥ १३ ॥ तावदप्युदकं तासां भूरिभिर्मत्स्यकच्छपैः । आकीर्ण पङ्किलं भूरिजीवमल्पतमाम्बुकम् ॥ १४ ॥ ननु क्षुल्लहिमवदादिषु शैलेषु नैधते । अरकाणां परावर्त्तस्ततस्तज्जातजन्मनाम् ॥ १५ ॥ गङ्गादीनां निम्नगानां, हानिः षष्ठेऽरके कथम् ? । किं चैवं कथमेतासां विघटेत न नित्यता ? ॥ १६ ॥ अत्रोच्यते - हिमवत्पर्वतोत्थस्य, हानिर्न स्यात् मनागपि । गङ्गादीनां tional For Private & Personal Use Only अतिदुष्ष मावर्णनं २० २५ ॥ ५४९ ॥ २८ w.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy