SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ हपरायणाः । निर्मर्यादा मिथो युद्धबधबन्धविसंस्थुलाः॥९० ।। अकार्यकारिणो नित्यमन्यायोत्पाततत्पराः । पित्रादिविनयाज्ञा दिव्यवहारविवर्जिताः॥९१॥ भूना काणान्धयधिरा, न्यूनाङ्गुल्यादयः कृशाः । कुणयः पङ्गवः श्यामाः, कामार्ता बाल्यतोऽपि हि ॥ ९२ ।। प्ररूढप्रौढकठिनरोमाणः शूकरादिवत् । असंस्कृतश्मश्रुकेशाः, प्रवृद्धनखराः खराः॥९३ ॥ कृतान्तसदृशाः काला, नीलीकुण्डोद्गता इव । स्थूलव्यक्तलसाजालनद्धाः | स्फटितमौलयः॥९४॥ बाल्येऽपि कपिलश्वेतमूर्द्धजा वलिभिः श्लथाः। अशक्ता निपतद्दन्ता, जरसा जर्जरा इव ॥ ९५ ॥ घटोटमुखा वक्रनासिकाः कुटिलेक्षणाः । उत्कण्डूयाःक्षतशतविगलत्पूयशोणिताः॥९॥ खरोष्ट्रगतयः संहननेनान्त्येन निर्बलाः । कुसंस्थाना: कुप्रमाणाः, कुस्थानशयनासनाः॥९७ ॥ सदाऽप्यशुचयः स्नानब्रह्मचर्यादिवर्जिताः । शास्त्रसंस्काररहिता, मूर्खा विकृतचेष्टिताः॥९८ ॥ निस्सत्त्वाश्च निरुत्साहाः, सोच्छिष्टा नष्टतेजसः । शीतोष्णपवनव्याधिप्रमुखातिशताश्रयाः॥९९॥ प्रस्खेदमलसन्दोहबीभत्सा धूलिधूसराः।बहुक्रोधमानमाया, लोभमोहभयोदयाः॥२००॥ व्रतैर्मूलोत्तरगुणैः, प्रत्याख्यानैश्च वर्जिताः।सम्यक्त्वेनापि रहिताः, प्रायः स्युर्मनुजास्तदा ॥१॥ कदाचिदेषां केषांचित् , सम्यक्त्वं सम्भवत्यपि ।संक्लिष्टाध्यवसायस्वाद्विरतिस्तु न सर्वथा ॥२॥तथोक्तं भगवत्यां-'ओसणं धम्मसन्नपभट्टा', जम्बूद्वीपप्रज्ञप्त्यां च-'ओसणं, धम्मसन्नसम्मत्तपरिभट्ठा' ओसन्नमिति प्रायोग्रहणात्कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः।प्रायः कच्छपमत्स्यादिमांसक्षौद्रादिभोजिनः। तुच्छधान्याशिनः केऽपि, बह्वाहारा बहुक्षुधः ॥३॥ प्रायो विपद्योत्पद्यन्ते, तिर्यक्षु Jain Educa t ional For Private Personal Use Only W ww.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy