________________
Jain Educat
ऽपि च ॥ ८६ ॥ मध्ये देशोनानि पश्च, योजनानि शिरस्यथ । साधिकानि त्रीण्युदस्तगोपुच्छसंस्थितान्यतः ॥ ८७ ॥ परिक्षेपा मूलमध्यशिरस्सूनानि विंशतिः । तथोनानि पञ्चदश, साग्राणि नव च क्रमात् ॥ ८८ ॥ अधस्ताच्छिखराद्यावदागतं तत्किलार्द्धितम् । कूटोत्सेधार्द्धयुक्कूटे, व्यासो यथेप्सितास्पदे ॥ ८९ ॥ तथाहिसक्रोशा योजनानां त्रयेऽतीते शिरोऽग्रतः । यदा जिज्ञास्यतेऽमीषु व्यासस्तदा तदर्द्धयेत् ॥ ९० ॥ स्युः षट् क्रोशाः सपादास्ते, कूटोत्सेधार्द्ध संयुताः । सपादक्रोशहीनैवं, संजाता पश्चयोजनी ॥ ९१ ॥ मध्यप्रदेशे विष्कम्भ, एतावानेषु जायते । एवं हिमवदादीनां सर्वकूटेषु भावना ॥ ९२ ॥ सिद्धायतनकूटस्योपरि रम्यं विराजते । सत् सिद्धायतनं मौलो, किरीटमिव भूपतेः ॥९३॥ स्थापना | सद्रत्नक नकमणिमयमेकक्रोशायतं तदततम् । चापशतानि चतुर्दश चत्वारिंशानि चोत्तुङ्गम् ॥९४॥ ( आर्या) पूर्वोत्तरादक्षिणासु, द्वारमेकैकमत्र तत् । धनुःपञ्चशतोत्तुङ्गं तदर्द्ध किल विस्तृतम् ॥ ९५ ॥ पञ्चधनुःशत विष्कंभायामा स्यात्तदर्द्धबाहल्या । मणिपीठिका तदन्तर्देवच्छन्दक उपरि चास्याः ॥९६॥ ( आर्या) पञ्चचापशतान्येषु, विष्कंभायामतो मतः । तान्येव सातिरेकाणि, तुङ्गत्वेन प्ररूपितः ॥९७॥ अष्टोत्तरं शतं नित्यप्रतिमास्तत्र चार्हताम् । उत्सेधाङ्गलनिष्पन्नधनुः पञ्चशतोच्छ्रिताः ॥ ९८ ॥ एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिः । एवं चतुर्दिशं ताः स्युर्नाम्ना च ऋषभादयः ।। ९९ ।। तासां च जिनमूर्तीनामङ्करत्नमया नखाः । अन्तर्लोहिताक्षरत्नप्रति सेक मनोहराः ॥ १०० ॥ पाणिपादतलनाभिजिह्वाश्रीवत्सच्चुकम् । तालूनि च तपनीयमयानि रिष्ठरत्नजाः ॥ १०१ ॥ श्मश्रुरोमराजयश्च,
ational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org