________________
Jain Education
भम् । उदीच्यां रथनूपुरचक्रवालाह्वयं भवेत् ॥ ५९ ॥ अयं जम्बुद्वीपप्रज्ञप्त्यभिप्रायः, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुरचक्रवालमुत्तरश्रेण्यां गगनवल्लभमुक्तमिति ज्ञेयं' । मुख्यत्वं त्वनयोज्ञेयं, स्वखश्रेण्यधिराजयोः । राजधानीरूपतया, महासमृद्धिशालिनोः ॥ ६० ॥ वसन्तस्तेषु चोत्तुङ्गरत्नप्रासादशालिषु । तृणायापि न मन्यन्ते, खर्गे विद्याधरेश्वराः ॥ ६१ ॥ दशयोजनतुङ्गस्य, पञ्चाशविस्तृतेरपि । खण्डस्यायस्य सकलं, प्रतरं स्याद् भुवस्तले ॥ ६२ ॥ पञ्च लक्षाः सहस्राणि द्वादशाथ शतत्रयम् । सप्ताढ्यं द्वादश कलाः, खण्डेऽथ प्रथमे घनम् ॥ ६३ ॥ लक्षाणामेकपञ्चाशत्रयोविंशतिरेव च । सहस्रा योजनानां षट्सप्ततिः षट् कलास्तथा ॥ ६४ ॥ श्रेणीभ्यामथ चैताभ्यां योजनानामतिक्रमे । दशानां मेखलैकैका, वर्त्तते पार्श्वयोर्द्वयोः ॥ ६५ ॥ तत्र याम्योत्तराभिख्ये, श्रेण्यौ गिरिसमायते । वसन्त्यत्र शक्रसत्कलोकपालाभियोगिनः ॥ ६६ ॥ तथाऽऽहुः क्षमाश्रमणपादा:-" विजाहरसेढीओ उहं गंतूण जोअणे दस उ । दसजोअणहिलाओ सेढीओ सक्करायस्स | ॥६७॥ सोमजमकाइयाणं देवाणं वरुणकाइयाणं च । वेसमणकाइयाणं देवाणं आभियोगाणं ॥ ६८ ॥ " बहूनि भवनान्यत्र, तेषां पस्योपमायुषाम् । वहिर्वृत्तानि रात्नानि चतुरस्राणि चान्तरे ॥ ६९ ॥ वेदिकावनरा जिन्योः, श्रेण्योर्व्यासोऽनयोर्भवेत् । योजनानि दशैतावान्, वैताढ्यस्यापि तत्र सः ॥ ७० ॥ दशयोजनतुङ्गस्य, त्रिंशद्योजनविस्तृतेः । खण्डस्यास्य द्वितीयस्य, गणितं प्रतरात्मकम् ॥ ७१ ॥ तिस्रो लक्षाः सहस्राणि सप्त १ चरितानुवादत्वाद् गौणं, प्रज्ञप्तिवाक्यं तु विधितया मुख्यं,
स्थापना ।
For Private & Personal Use Only
१०
१३
w.jainelibrary.org